________________
287
उत्तराध्ययन ततः कर्णौ पिधायैव-मूचे राजीमती सती ॥ किमेतदूत्रे युष्माभि-र्ममापि प्राकृतोचितम् ॥ ३९६ ॥ निशा भजति चेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥३९७॥ नेमेः पाणिर्विवाहे चे-न्मपाणी न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः!॥३९८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! ॥ इत्यूचानास्ततः प्रोचैः, खसखीः सा सतीत्यवक् ॥ ३९९ ॥ खमेऽौरावणारूढो, दृष्टः कोऽपि पुमान्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥४०॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥ १॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! ॥ आपातकटुकोऽप्येष, खप्नो ह्यायति सुन्दरः ! ॥२॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ॥ ३॥ अथ यथा प्रभुः प्राजाजीत्तथा सूत्रकृदेव दर्शयति
मूलम्-मणपरिणामो अ कओ, देवा य जहोइअं समोइण्णा ।
___ सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्वद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावानिष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूतौ ॥ २१॥ __ मूलम्-देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो।
निक्खमिअ बारयाओ, रेवययंमि हिओ भयवं ॥ २२॥ व्याख्या-'सीआरयणंति' शिबिकारनं सुरकृतमुत्तरकुरुसंश, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२ ॥
मूलम्-उजाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ।
साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहि ॥ २३ ॥ व्याख्या-तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः ‘साहस्सीएति पुरुषाणामितिशेषः, परिवृतः। अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्कामति । तुः प्रत्तों, चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याहमूलम्-अह सो सुगंधगंधिए, तुरिअं मउअकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ २४
व्याख्या--सुगन्धगन्धिकान्खभावत एव सुरभिगन्धीत् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् , पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ॥२४॥ एवमुपात्तदीक्षे मनःपर्यायज्ञानं प्रासे च जिनेमूलम्-वासुदेवो यण भणइ, लुत्तकेसं जिइंदि। इच्छिअमणोरहं तुरिअं, पावेसू तं दमीसरा ॥२५॥
व्याख्या-वासुदेवश्वशब्दात् बलभद्रसमुद्रविजयादयश्च ‘णंति' एनं नेमिजिनं भणति लुप्सकेशं जितेन्द्रियं, इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीवर ! जितेन्द्रियशिरोमणे! ॥ २५॥
मूलम्-नाणेणं दसणेणं च, चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि अ ॥ २६ ॥ मूलम्-एवं ते रामकेसवा, दसारा य बहुजणा। अरिहनेमि वंदित्ता, अइगया बारगाउरिं ॥ २७ ॥ ___ व्याख्या-'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ २६ ॥ २७ ॥ तदा च त्रुटिततत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याहमूलम्-सोऊण रायवरकन्ना, पवनं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया॥२८॥
व्याख्या-'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥ २८ ॥ मूलम्-राईमई विचिंतेइ, धिरत्थु ! मम जीविअं। जाहं तेण परिच्चत्ता, से पवइउं मम ॥ २९ ॥
व्याख्या-'जाति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्वं प्रबजितुं मम यथान्यजन्मन्यपि दृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥२९॥ इतश्च