________________
277 उत्तराध्ययन अथ तत्रैव वैताढ्ये-ऽपाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८॥ शशिप्रभांप्रभगुणा, तस्य राज्ञी शशिप्रभा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ २९ ॥ क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्या, तस्याश्चके महोत्सवैः ॥ ३०॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ॥ ३१ ॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी कोऽपि जगौ यस्ते, हग दिव्यमसिं करात् ॥ ३२ ॥ यस्योई नित्यचैसे च, पुष्पवृष्टिर्भविष्यति ॥ कनीरनमिदं मर्यरत्नं स परिणेष्यति ॥ ३३ ॥ [ युग्मम् ] आच्छेत्ता खगरवं यो, ममापि स महावलः ॥ जामाता भवितेत्यन्तमुमुदे भूपतिस्ततः ॥ ३४ ॥ . अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्ञौ यशखिनीभद्रे, अभूतामति वल्लभे ॥ ३५ ॥ तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाजप्रमोदने ॥ ३६ ॥ पनाहश्छमनां समा-ऽपरस्यास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ ३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खप्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ॥ ३८ ॥ विषेण मूञ्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ ३९ ॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं सारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः
१ सहक् । २ अमी गुणाः ॥ ॥४०॥ नंष्ट्वा भद्रा त्वगालोकै-विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ॥४१॥ देवा तत्रागतश्चित्र-गतियोमा प्रजस्तदा ॥ विलपन्नृपपौरं त-ददर्श पुरमातुरम् ॥ ४२ ॥ ज्ञात्वा च विषवार्ता ता-मुतीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥४३॥ ततस्तं प्राप्तचैतन्यं, किमेतदितिवादिनम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ॥ ४४ ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्निशम्य सुमित्रोऽपि, तमित्यचे कृताञ्जलिः॥४५॥ स्वनामवंशाख्यानेन. भ्रातः! कों पुनीहि मे ॥ श्रतं न पुण्याय, त्वादृशां छुपकारिणाम् ॥ ४६ ॥ मित्रं चित्रगतनामा-दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥ ४७ ॥ विषेण विपदात्रा च, बहूपकृतमध मे ॥ अनभ्रामृतधृष्ट्याभं, नो चेत्त्वदर्शनं कुतः! ॥४८॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गः ॥ किं ते प्रत्युपकुर्वेह, घनस्येव जगजनः ! ॥ ४९ ॥ सुमित्रं मित्रता प्राप्तं, पदन्तमिति संमदात् ॥ पप्रच्छ खच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ॥ ५० ॥ ऊचे सुमित्रो विहरन् , सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽध वा थो वा, तं नत्वा गन्तुमर्हसि ! ॥५१॥ तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः, स्वर्णाजस्थमपश्यताम् ॥ ५२ ॥ तयोर्मुदितयोः सम्यक, तमानम्य निविष्टयोः॥ श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ॥५३॥ तेषामुपादिशद्धर्म, केवली जगतां हितः ॥ तं चाकर्ण्य मुदा चित्र-गतिरित्यवदन्मुनिम् ॥ ५४ ॥ मित्रस्यास्य प्रसादेन, श्रुत्वा यो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ ५५ ॥ इत्युदीर्योल्लसद्वीर्यो, धर्मकार्य स खेचरः ॥ आददे देशविरतिं, विरतः पापकर्मणः ॥५६॥ __ अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो ! ॥ ५७ ॥ मुनिजंगौ गताऽरण्ये, सा चौरईतभूषणा ॥ पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः॥ ५८॥ ततोऽपि नष्टा साऽटव्यां, दग्धा दावाग्निना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! ५९ ॥ ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा ॥हता सपल्या कलहे, तृतीयां गामिनी भुवम् ॥६०॥ ततस्तूद्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते ॥ तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरून्नृपः ॥ ६१॥ यत्कृतेदस्तया चक्रे. सोऽस्थादत्रैव तत्सुतः ॥ जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ॥ ६२ ॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य कवलिनः दीक्षां जग्राह साग्रहम् ॥६३ ॥ सुमित्रोऽपि समित्रोऽगा-त्पुरे पाय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निर्गत्य काप्यगात्कुधीः ॥ ६४ ॥ सुमित्रमन्यदापृच्छय, खपुरं सूरसूर्ययो॥धर्मकार्य च नो मित्र-मिव स व्यस्मरत्वचित् ॥६५॥
अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनीं जहे, कलिङ्गाधिपतेः प्रियाम् ॥ ६६ ॥ तच्छ्रत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७ ॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः ॥ ययौ चिप्रगतिस्तूर्ण, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, व्यग्रहीन्यग्रहीच तम् ॥