Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 281
________________ 276 उत्तराध्ययन ॥ अथ द्वाविंशमध्ययनम् ॥ ॥ॐ॥उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥ व्याख्या-राजलक्षणानि चक्रवस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥१॥ मूलम्-तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपिदो पुत्ता, इट्टा रामकेसवा ॥२॥ व्याख्या-'दुवे आसित्ति' द्वे अभूतां 'तासिति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २॥ मूलम्-सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नाम, रायलक्खणसंजुए ॥३॥ व्याख्या-इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३ ॥ मूलम्-तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे। भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे॥४॥ व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेष प्रतीतमेवमप्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्र प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ॥ १॥ सधर्मचारिणी तस्य, धारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खप्नाख्यातो धनाभिधः ॥ २ ॥ कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥ ३॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरीकृतरति, रतिदा दर्शनादपि ॥ ४ ॥ पट्टालिखिततद्रूपं, वीक्ष्यात्सन्तानुरागिणीम् ॥ धनः कनी धनवती-मुपयेमेऽन्यदा मुदा ॥ ५॥ [ युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥ ६ ॥ तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनि दशतुर्मार्ग-भ्रष्टं धनवतीधनौ ॥ ८॥[ युग्मम् ] ततस्तौ दम्पती साधु, तमुपेस ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्ता प्राप्तचेतनम् ॥९॥ तं च खास्थ्यं गतं नत्वा, धनो विनयवामनः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥१०॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥११॥ सार्थाद्भष्टोऽन्यदाटव्यां, मोहाब्राम्यन्नितस्ततः ॥ श्रान्तः क्षुधातृषाक्रान्तो-त्रायातो मूर्छयाऽपतम् ॥ १२ ॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः ॥धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥१३॥ किश्चाचामन्तरा चैत्य-मिवाहेद्धममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४॥ इत्युदीये तयोयोग, सम्यक्त्वाणुव्रतादिकम् ॥ श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनिर्जगौ ॥ १५ ॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म तदन्तिके ॥ प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ॥ १६ ॥ ताभ्यां च धर्मशिक्षाय, रक्षितः स महामुनिः॥ तत्र स्थित्वा कियत्कालं, व्यहात्तिदनुज्ञया ॥ १७॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां स्नेह-मिवान्योन्यमखण्डितम् ॥ १८॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्ध समवासरत् ॥ १९॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः ॥ प्रणम्य भवपाथोधि-नावं शुश्राव देशनाम् ॥ २०॥विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः ॥ प्रव्रज्यामाददे तस्मा-दूरोः प्राज्यमहोत्सवः ॥२१॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात्॥ व्यहापीद्धर्मदानेना-ऽनुगृहन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-ऽभूतां शक्रसमौ सुरौ ॥ २३॥ "इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-न्मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-त्तस्याः कुक्षाववातरत् ॥ २५॥ पूर्णऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ २६॥ वर्द्धमानः क्रमान्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७ ॥

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424