Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 291
________________ 286 उत्तराध्ययन मूलम्-कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्धे अ अच्छहि ॥१६॥ व्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुभविवाहकजंमि, भुंजावेउं बहुं जणं१७ _ व्याख्या-'भद्दाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्य गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः १७ ॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाहमूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुक्कोसे जिए हि उ॥१८॥ _ व्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्वहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पूत्तौ ॥ १८॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबहू जिआ।न मे एअंतु निस्सेसं, परलोए भविस्सइ १९ __ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतजीवहननं निःश्रेयसंकल्याणं परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच भगवतः कथमियं चिन्ता स्यात् ? ॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाधत्प्रभुश्चक्रे तदाहमूलम्-सो कुंडलाण जुअलं, सुत्तगं च महायसो। आहरणाणि अ सवाणि, सारहिस्स पणामए ॥२७॥ व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ ततो यदभूत्तदुच्यते__अवलिष्ट ततः स्वामी, सद्यो वक्र इव ग्रहः ॥ करुणारसपाथोधि-विश्वजन्तुहितावहः ! ॥ ३७० ॥ शिवासमुद्रविजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ !॥ ३७१ ॥ किं वत्सास्मत्प्रमोददु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते स्वयं गत्वा, वृतपूर्वी तदजजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भत्तेहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा!॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ वभाण भगवान्पूज्याः 1, श्लथयन्त्वेनमाग्रहम् ॥ प्रवर्त्यते हितेऽर्थे हि, खाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् । ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसु. न्दरे ! ॥ ३७८ ॥ [युग्मम् ] वदन्तमिति तं साचे, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८० ॥ अयं हि भगवान् दीक्षा-भादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१ ॥ मुदितेषु तदाकये, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२॥ __इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥ राजीमती क्षितौ वज्रा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः १ ॥ त्वादशां हि विशां भक्त-जनोपेक्षा न युज्यते । ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगप्रभो।। तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः ॥ ३८७ ॥ यद्वा ममैवासी दोषो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे 1॥ ३८८॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया खीकृत्य मुक्तायाः, सर्व में विफलं विभो!॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः ॥ ज्वलतीव वपुः कान्त 1, त्वद्वियोगव्यथाभरैः ॥ ३९॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वाशा हि महात्मानः, पंक्तिभेदं न कुर्वते । ॥ ३९१ ॥ दशा गिरा च मां रक्तां. विभो । सम्भावयैकशः॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ।। ३९२ ॥ यद्वा सिद्विवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वार्ह मानुषकीटिका ? ॥ ३९३ ॥ इत्युचैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥मा रोदः सखि ! यात्वेप, नीरसो निष्ठुराग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424