Book Title: Updeshpad Granth Part 02
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
૪૦૨
ઉપદેશપદ : ભાગ-૨ - રાગ-દ્વેષ એ જ પરિગ્રહ છે. કારણ કે રાગ-દ્વેષ હોય ત્યારે અવશ્ય પરિગ્રહનો ઉપયોગ થાય. આ મહાવાક્ષાર્થ છે. એ જ પ્રમાણે રાગ-દ્વેષનો અભાવ એ જ નિષ્પરિગ્રહતા છે. જો એમ ન હોય તો પરિગ્રહ હોવા છતાં રાગ-દ્વેષની નિવૃત્તિ ન થાય. (પરિગ્રહ હોવા છતાં ભરત ચક્રવર્તી વગેરેને રાગ-દ્વેષની નિવૃત્તિ થયેલી છે.) આ ઐદંપર્યાર્થ છે.
આ પ્રમાણે અન્યસૂત્રોમાં પણ સમ્પગ્વિચારીને પદાર્થ વગેરેની યોજના કરવી. (૮૮૧) साम्प्रतमुक्तोपदेशव्यतिक्रमे दोषमादर्शयन्नाहइहरा अण्णयरगमा, दिट्टेट्ठविरोहणाणविरहेण । अणभिनिविट्ठस्स सुयं, इयरस्स उ मिच्छणाणंति ॥८८२॥
'इतरथा' यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः । कथमित्याह-'अन्यतरगमाद्', इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः संभवन्ति, यथोक्तं-"सव्वनईणं जा होज, वालुया सव्वउदहिजं उदयं। एत्तो य अणंतगुणो, अत्थो एगस्स सुत्तस्स ॥१॥" अतोऽन्यतरश्चासौ गमश्शान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, 'दृष्टेष्टविरोधज्ञानविरहेण' दृष्टः प्रत्यक्षानुमानप्रमाणोपलब्धः, इष्टश्च शास्त्रादिष्टोऽर्थस्तयोर्विरोधे बाधायां यज्ज्ञानमवबोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थमेवेदं वस्त्वित्यकृताग्रहस्य श्रुतमागमार्थोऽधीयमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानतां प्रतिपद्यते । इह त्रीणि ज्ञानानि श्रुतज्ञानादीनि । तल्लक्षणं चेदं"वाक्यार्थमात्रविषयं, कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं, मिथ्याभिनिवेशरहितमलम् ॥१॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ॥२॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रलदीप्तिसमम् ॥३॥" अशुद्धसद्रत्नदीप्तिसममिति अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्नस्य पद्मरागादेर्दीप्त्या तुल्यमिति । इतरस्य त्विति अभिनिविष्टस्य पुनर्मिथ्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते । इदमुक्तं भवतिइह कश्चित् ‘एगे आया' इति स्थानाङ्गप्रथमसूत्रस्य श्रवणादेक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा वापि, दृश्यते जलचन्द्रवत् ॥१॥ इत्येवं प्रतिपन्नात्माद्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुषनानात्वस्येष्टस्य च संसारापवर्गविभागस्य बाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षणमेवैकमर्थमार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या,

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538