Book Title: Updeshpad Granth Part 02
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 529
________________ પ૨૨ ઉપદેશપદ : ભાગ-૨ __'सेवयितव्याः' शुश्रूषणीयाः 'सिद्धान्तज्ञायकाः' परमपुरुषप्रणीतागमरहस्यविदो गुरवः 'भक्तिनिर्भरमनोभिः' परमप्रमोदापूरितमानसैः । श्रोतव्यमाकर्णनीयं नियमेनावश्यंतया प्रतिदिनमित्यर्थः, तेषां' सिद्धान्तज्ञायकानां वचनं धर्मोपदेशरूपं, चः प्राग्वत्, 'आत्महितं' स्वश्रेयस्कारि ॥१०३४॥'दान' च ज्ञानाभयधर्मोपग्रहानुकम्पादानभेदभिन्नं 'यथाशक्ति' स्वसामर्थ्यानुरूपं 'देयं' दातव्यं, 'परपीडा' परोपतापरूपा मो पूर्ववत्, मनसा वाचा कायेन च नानुष्ठेया, 'कर्तव्योऽसंकल्पः', संकल्पो नाम स्त्रीगोचरो रागपरिणामः पुरुषाणां, स्त्रीणां त्वेतद्विपर्ययरूपः, तदुक्तं-"काम! जानामि ते मूलं, संकल्पात किल जायसे । अतस्तं न करिष्यामि, ततो मे किं करिष्यसि? ॥१॥"तत एतद्विपर्ययरूपोऽसंकल्पो विषयविराग इत्यर्थः, विषयानुरागविरागयोरेव सर्वानार्थमूलत्वात् । यथोक्तम्-"जयो यद्वाहुबलिनि, दशवक्रे निपातनम् । जिताजितानि राजेन्द्र !, हृषीकान्यत्र कारणम् ॥१॥"यदि वा, संकल्पः सङ्गतार्थविषयः समर्थभावः । भावयितव्यं भवस्वरूपम्' ।इहार्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनात् भवस्वरूपविषय उपयोगो भवस्वरूपमुच्यते । ततस्तद् भवदुत्पद्यमानं तथाविधकर्मक्षयोपशमात् तद्भावनाग्रन्थाभ्यासात् प्रयोजनीयं भावयितव्यं भवस्वरूपम् । "यथेह लवणाम्भोभिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसंख्येयैर्भवस्तथा ॥१॥ किं च स्वप्नाप्तधनवद्, न तथ्यमिह किञ्चन । असारं राज्यवाग्यादि, तुषखण्डनवत्तथा ॥२॥ तडिदाडम्बराकारं, सर्वमत्यन्तमस्थिरम् ।मनोविनोदफलदं, बालधूलीगृहादिवत् ॥३॥यश्च कश्चन कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराग्रग्रासवन्नैव सुन्दरः ॥४॥" ॥१०३५॥'मान्या' लोकलोकोत्तरभावानुगता महान्तो जना 'मानयितव्या' मनोवाक्कायक्रियाभिः 'मान पूजायाम्' इति वचनात् पूजनीयाः । तत्र लौकिकभावानुगता मातृपितृस्वामिप्रभृतयः, लोकोत्तरास्तु धर्माचार्यादय इति । 'परिभवितव्या' न्यक्कारमानेतव्या न केचिजघन्यमध्यमोत्तमभेदभाजो जन्तवो जीवलोके । 'लोक' इति विशिष्टलोकाचारः, अनुवर्तितव्योऽनुशीलनीयः ।अत एव पठ्यते-"लोकःखल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥१॥" 'न' नैव निन्दितव्याश्चावर्णवादोघट्टनेनावज्ञातव्याः पुनः केचित् । इतिः प्राग्वत् ॥१०३६॥ 'गुणराग' औदार्यदाक्षिण्यादिगुणबहुमानः कर्त्तव्यः कुतोऽपि वैगुण्यात् स्वयंगुणानुष्ठानासामर्थ्येऽपि निबिडगुणानुरागवशाभावातिशयतस्तदनुष्ठानफलवन्तो भवन्ति जन्तवः । तथा चोक्तम्-"अप्पहियमायरंतो" इत्यादि । 'नो कर्त्तव्या' न विधेया

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538