________________
ઉપદેશપદ : ભાગ-૨
૪૨૩ अधुना व्यतिरेकमाहजे पुण थेवत्तणओ, एएसुं चेव अविगएच्छत्ति । ते एयाण अजोग्गा, अइणिउणं चिंतियव्वमिणं ॥९१४॥
ये पुनः पुण्यविकलाः स्तोकत्वतस्तुच्छत्वेन धनादीनामेतेष्वेव धान्यादिष्वविगतेच्छास्तदभिलाषिणः, इति पूर्ववत्, ते पुरुषा एतेषां द्रव्यरत्नानां धर्मरत्नस्य चायोग्या वर्तन्ते । अतिनिपुणं सूक्ष्माभोगसंगतं यथा भवत्येवं चिन्तयितव्यमालोचनीयमिदं पूर्वोक्तं वस्त्विति ॥९१४॥
હવે આ જ વિષયને વિપરીત રીતે કહે છે
ગાથાર્થ–ટીકાર્થ–પુણ્યહીન જે પુરુષો ધનાદિ અલ્પ હોવાના કારણે ધાન્યાદિની જ ઇચ્છાવાળા છે તે પુરુષો દ્રવ્યરત્નો માટે અને ધર્મરત્ન માટે અયોગ્ય છે. આ વિષય સૂક્ષ્મ ઉપયોગ પૂર્વક વિચારવો.
[અહીં ધર્મરત્નને આશ્રયીને અર્થ આ પ્રમાણે છે–પુણ્યહીન જે જીવો ધનાદિમાં આસક્ત હોવાના કારણે ધાન્યાદિની જ ઇચ્છાવાળા છે તે પુરુષો ધર્મરત્ન માટે અયોગ્ય છે.] (૯૧૪)
अथ पूर्वगाथोद्दिष्टं गुणविभवं धर्मरत्नार्थिनां धान्यादिरूपतया परिकल्प्य निदर्शयन्नाहअक्खुद्दाई धण्णाइया उ वत्थाइया उ विण्णेया ।
मज्झत्थाई इइ एक्कवीसगुणजोगओ विहवो ॥९१५॥ ____अक्षौद्र्यादयोऽक्षौद्र्यमक्षुद्रता, आदिशब्दाद् रूपवत्त्व-सौम्याकृतित्व-जनप्रियत्वाऽक्रूरत्वा-ऽभीरुत्वाऽशठत्व-दाक्षिण्यं-लजालुत्व-दयालुत्वं ग्रहः। ततोऽक्षौद्रयमादिर्येषां दशानां गुणानां ते तथा । किमित्याह-धान्यादयो वर्त्तन्ते धान्यधनादिकल्पा इत्यर्थः । तुः पूर्ववत्। वस्त्रादयस्तु विज्ञेया माध्यस्थ्यादयः। वस्त्रादिकल्पा माध्यस्थ्यादय एकादशगुणा इत्यर्थः । अत्र माध्यस्थ्यं मध्यस्थवृत्तित्वं। आदिशब्दात् सौम्यदृष्टि त्व-गुणरागित्व-सत्कथासुपक्षयुक्तत्व-दीर्घदर्शित्व-विशेषज्ञत्ववृद्धानुगामित्व-विनीतत्व-कृतज्ञत्वे-परहितार्थकारित्वं-लब्धलक्षत्वग्रहः। इत्येवमेकविंशतिगुणयोगतो धार्मिकस्य गुणविभवो भावनीयः। यथा हि पूर्वं धान्यादिगुणप्राप्तौ कुटुम्बनिर्वाहहेतुभूतायां, पश्चाद् वस्त्रादिप्राप्तौ च सत्यां रत्नवाणिज्यं कुर्वन् व्यवहारी समभिलषितसिद्धसिद्धिभावेन सर्वांगकल्याणभाग् भवति, तथाऽक्षौद्रयादिगुणयोगेन