Book Title: Updeshpad Granth Part 02
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 461
________________ ૪૫૪ ઉપદેશપદ : ભાગ-૨ कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताने सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनोत्थानादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥९७९॥ ततो ज्ञानं विद्येशस्य ज्योतिषिकस्य समभूत्, यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा नरेन्द्रेण कृता । ततो ललिताङ्गेन धनुर्विद्यया जित्वा आगमः, तस्याः कृतः । सा चागता अहिना दष्टा जीविता च गारुडवेदिना । ततः पितृचिन्ता कथमसौ वीवाहितव्या । ततस्तया शासनं कृतं ज्वलनकरणेनाग्निप्रवेशलक्षणेन यजन्मान्तरं तस्या या विभाषा प्रज्ञापना तद्रूपम् ॥९८०॥ ततो ललिताङ्गस्याभ्युपगमः संवृत्तः । ततो ज्वलने प्रज्वालिते चिताभ्रंशं कृत्वा पूर्वखातया सुरङ्गया निर्गत्य ऊढा सा तेन । इतिः प्राग्वत् । पित्रोस्तोषः संवृत्तः । प्रज्ञापना च शेषाणां कृता यथा कथमेकाऽनेकैः सह परिणाय्यते । भोगा जाताः । कदाचिच्छरदभ्रोपलम्भः संवृत्तः । तत्र तद्विषया चिन्ता । निर्विण्णयोश्च तीर्थकरसमीपे दीक्षा सम्पन्ना ॥९८१॥ ईशानदेवलोके ततो जन्म भोगाश्च। तत्र च्यवनम्। ततो राजसुतो देवसेननामा जातः । कला गृहीताः, वयस्वांश्च संवृत्तः । एषा उन्मादयन्ती विद्याधरदारिका चन्द्रकान्ता नाम जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥९८२॥ 'विज्जाहरखिंसा माणुसो 'त्ति 'अणियत्तणे असमगो य' इति ततस्तस्यास्तद्गोचरे रागेऽनिवर्तमाने विद्याधरैः खिंसा प्रारब्धा, यथा-मानुष आकाशगमनादिलब्धिविकलो नरः, असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्त्तत इति । तत्र प्रतिच्छन्दके चण्डालीति नाम स्थापयित्वा तस्या रूपं दर्शितं, तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेण ज्ञाते वीवाहः कारितः ॥९८३॥ भोगो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैर्विद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानैर्वृत्तः । ततो नो एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः पुष्पप्रभृतिभिर्भोगः । ततो सखीहासाद् यथा त्वं न पितुर्गौरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं च। निष्क्रमणं जातमिति ॥९८४॥ ब्रह्मेन्द्रो ब्रह्मलोकप्रभु तो, भोगाश्च्यवनम्। ततो राजसुतः प्रियङ्कर इति नामा । स च चक्रवर्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता नूनमावयोः कश्चिजन्मान्तरगतस्नेहानुबन्धः समस्तीत्येवंरूपा ॥९८५॥ अहंदागमे पृच्छा प्रवृत्ता। शिष्टे भगवता संवेगो

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538