________________
૪૫૪
ઉપદેશપદ : ભાગ-૨ कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताने सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनोत्थानादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥९७९॥ ततो ज्ञानं विद्येशस्य ज्योतिषिकस्य समभूत्, यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा नरेन्द्रेण कृता । ततो ललिताङ्गेन धनुर्विद्यया जित्वा आगमः, तस्याः कृतः । सा चागता अहिना दष्टा जीविता च गारुडवेदिना । ततः पितृचिन्ता कथमसौ वीवाहितव्या । ततस्तया शासनं कृतं ज्वलनकरणेनाग्निप्रवेशलक्षणेन यजन्मान्तरं तस्या या विभाषा प्रज्ञापना तद्रूपम् ॥९८०॥ ततो ललिताङ्गस्याभ्युपगमः संवृत्तः । ततो ज्वलने प्रज्वालिते चिताभ्रंशं कृत्वा पूर्वखातया सुरङ्गया निर्गत्य ऊढा सा तेन । इतिः प्राग्वत् । पित्रोस्तोषः संवृत्तः । प्रज्ञापना च शेषाणां कृता यथा कथमेकाऽनेकैः सह परिणाय्यते । भोगा जाताः । कदाचिच्छरदभ्रोपलम्भः संवृत्तः । तत्र तद्विषया चिन्ता । निर्विण्णयोश्च तीर्थकरसमीपे दीक्षा सम्पन्ना ॥९८१॥ ईशानदेवलोके ततो जन्म भोगाश्च। तत्र च्यवनम्। ततो राजसुतो देवसेननामा जातः । कला गृहीताः, वयस्वांश्च संवृत्तः । एषा उन्मादयन्ती विद्याधरदारिका चन्द्रकान्ता नाम जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥९८२॥ 'विज्जाहरखिंसा माणुसो 'त्ति 'अणियत्तणे असमगो य' इति ततस्तस्यास्तद्गोचरे रागेऽनिवर्तमाने विद्याधरैः खिंसा प्रारब्धा, यथा-मानुष आकाशगमनादिलब्धिविकलो नरः, असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्त्तत इति । तत्र प्रतिच्छन्दके चण्डालीति नाम स्थापयित्वा तस्या रूपं दर्शितं, तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेण ज्ञाते वीवाहः कारितः ॥९८३॥ भोगो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैर्विद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानैर्वृत्तः । ततो नो एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः पुष्पप्रभृतिभिर्भोगः । ततो सखीहासाद् यथा त्वं न पितुर्गौरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं च। निष्क्रमणं जातमिति ॥९८४॥ ब्रह्मेन्द्रो ब्रह्मलोकप्रभु तो, भोगाश्च्यवनम्। ततो राजसुतः प्रियङ्कर इति नामा । स च चक्रवर्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता नूनमावयोः कश्चिजन्मान्तरगतस्नेहानुबन्धः समस्तीत्येवंरूपा ॥९८५॥ अहंदागमे पृच्छा प्रवृत्ता। शिष्टे भगवता संवेगो