________________
૪૫૩
ઉપદેશપદ : ભાગ-૨ विजाहरखिंसा माणुसोत्ति अणियत्तणे असमगो य । पडिछंदयचंडाली, राय णिवणाए वीवाहो ॥९८३॥ भोगो विज्जाहरसाहणेहिं णो एक्कसे मिलाणाई । सहिहासा संवेगो, अरहागमणं च णिक्खमणं ॥९८४॥ बभिद भोग चवणं, रायसुय पियंकरोत्ति चक्कित्तं । एयस्सा मंतित्तं, अइसयपीईए चिंतत्ति ॥९८५॥ अरिहागमम्मि पुच्छा, सिढे संवेग चरणपव्वजा । चित्ताभिग्गहपालण, सेढी णाणं च सिद्धी य ॥९८६॥
संग्रहगाथाक्षरार्थ:-'शुकः' कश्चिच्चूतमञ्जरीभिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत्। स च राजपल्याः कुण्डलस्वप्नसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थं भूमौ खन्यमानायां निधिरुद्घटितः तस्य निधिकुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः । स्त्रीषु नो रागः संभूतः ॥९७४॥ इत्येवं शुकिकाया अप्यन्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुषे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं निधिकुण्डलमिति । गोपितश्च तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये जाते सति उष्ट्रयश्चरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं तस्याः ॥९७५॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्तिसमाकर्णनेन रागः सम्पन्न एवेत्यपिशब्दार्थः । 'मिथः' परस्परम् । इतिः च्छन्दःपूरणार्थः । 'चित्रे' प्रतिबिम्बरूपे विषयभूते दर्शनाज्जाने सम्पन्ने सति वरणं कन्यकायाः । ततो लाभः संवृत्तः । विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग्वत् ॥९७६॥ मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दर्शनं निधिकुण्डलस्य सञ्जातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे । वीवाहो वृत्तः । भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः । लब्धराज्येन च निधिकुण्डलेन चैत्यभवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ॥९७७॥ ततः सौधर्मे देवतयोत्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः । च्यवनं च तस्मात् । जातश्च नृपसुतो ललिताङ्गनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरो विहितः तत्रागमनं बहूनां राजपुत्राणाम् ॥९७८॥ मिलितेषु च राजपुत्रेषु चतसृषु