Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(१२) सादर्श:
[सामान्यएवेति संप्रदायस्तदपि तुच्छम्- अक्लप्तस्य तादृशेच्छाविषयत्वस्य संबन्धतोपगमे तादृशज्ञानविषयत्व-स्वसमानकालीनज्ञानविषयत्वादिपरम्पराया आप विनिगमनाविरहेण संबन्धताप्रसङ्गगातू, तस्मात् पदपदार्थयोः संबन्धान्तरमेव वाच्यवाचकभाव इति वदन्ति ।। __ यत्तु ज्ञाने पदानां शक्तिर्नत्वर्थ तथा च तज्ज्ञानशक्तत्वं तवाचकत्वं तच्च तद्विष. यकशान्दधीजनकतावच्छेदकधर्मवत्वम्, स च धर्मो वयादिनिष्ठदाहाधनुकूलशक्तिवत् पदार्थान्तरमेव । लाक्षणिकं च नानुभावकमेवेति न तत्र शक्तिः । वापत्तिरित्यर्थः । परिहरति-तदपि तुच्छमिति । विनिगमनाविरहाद् दोषमाह-अक्लुप्तस्येति, स्वजन्येत्यायुक्तसंबन्धः क्लुप्तस्तु नास्ति किं तु लया कल्प्यते तथा चाऽक्लप्तस्य तादृशेच्छाविषयत्वस्य-स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वस्य संबन्धत्वस्वीकारे विनिगमनाविरहात ताशज्ञानविषयत्वस्य नाम पदजन्यबोधनिरूपितार्थनिष्ठविषयत्वनिष्टप्रकारतानिरूपितभगवज्ञानीयविशेष्यत्वस्यापि संबन्धत्वं स्यात् पदपदार्थयोर्भगवज्ञानीय विशेष्यताया अपि सत्त्वात् तथा स्वसमानकालीनज्ञानविषयत्वस्यापि संबन्धत्वं स्यादेव–अर्थसमानकालिकं यद् भगवज्ञानं तद्विषयत्वस्य पदे पदसमानकालिकभगवज्ञानविषयत्वस्य चार्थे सत्त्वादित्यर्थः । तस्मात्तार्किकोक्तसरन्धानामुपपत्त्यभावात् पदपदार्थयोर्वाच्यवाचकभाव एवं संबन्धः स्वीकार्य इति मीमांसकः स्वाभिप्रायमुद्घाटयति-तस्मादिति । "वदन्ति" इत्यस्य पूर्वोक्तेन “अत्र मीमांसकानुयायिनः" इत्यनेनान्वयः ।
उक्तरीत्या मीमांसकाभिप्रायमनूद्य पुनरपि मीमांसकमतमनुवदति- यत्त्विति, जन्यनिरूपिता हि जनके शक्तिर्भवति यथा वह्नौ वह्निजन्यदाहपाकादिनिरूपिता, पदज्ञानेन चार्थज्ञानमेव जन्यते नत्वर्थस्तस्य पूर्वमेव सिद्धत्वादिति ज्ञाने-पदार्थज्ञाने ( निरूपितत्वं सप्तम्यर्थः) पदानाम् पदज्ञानस्य शक्तिरित्यर्थः । वाचकत्वलक्षणमाह-तज्ज्ञानमिति, तज्ञानशक्तत्वं नाम घटादिपदार्थविषयकज्ञानोत्पादकशक्तिमत्त्वम् । ननु यदि तद्विषयकज्ञानोत्पादकशक्ति. मत्त्वं वाचकत्वं तदा धूमस्यापि वहिवाचकत्ये स्याद् धूमज्ञानेन वहिज्ञानस्य जायमानत्वादित्याशङ्कयाह-तच्चेति, तद्विषयकेति-यथा घटविषयकशाब्दबोधजनकता घटपदेस्ति तत्र तादृशशाब्दबोधानुकूला शक्तिरप्यस्तीति सा शक्तिस्तादृशशाब्दबोधजनकताया अवच्छेदिका जातेति ताद शशाब्दबोधजनकतावच्छेकदकशक्तिरूपो यो धर्मस्तद्वत्त्वं पदेऽस्त्येव तदेव तद्वाचकत्वम्, धूमे । न वह्निविषयकशाब्दबोधजनकत्वमिति न धूमस्य वह्निवाचकत्वापत्तिः । तथा च तद्विषयकशाब्द बुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्वं तद्वाचकत्वमिति सिद्धम् । उक्तजन कतावच्छेदकधर्मस्वरूपमाह-सचेति । मीमांसकः शक्तेः पदार्थान्तरत्वस्वीकारादुक्तम्-पदार्धा न्तरमिति । नन्वेवं लाक्षणिकस्य गल्लादिपदस्यापि तीरादिवाचकत्वं स्यात्-तीरादिविषयकशा ब्दबोधजनकशक्तिमत्त्वादित्याशङ्कयाह-लाक्षणिकमिति, लाक्षणिकपदस्य लक्ष्यार्थविषयकशाब्द बोधजनकत्वमेव नास्तीति न गङ्गादिपदस्य तीरादिवाचकत्वापत्तिरित्यर्थः । अनुभावकम्= शाब्दबोधजनकमितियावत् ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 216