Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 20
________________ निरूपणम्] टीकात्रयोपेता [अ.टी.] पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदेन द्रव्यपदार्थो नवप्रकार इति विभागोदेशोक्तत्वात्क्रमेण लक्षणमाह-तत्र गन्धवतीति । सजातीयविजातीयव्यवच्छेदो लक्षणप्रयोजनमिति केचित् । तत्र पृथिव्यादिलक्षणे द्रव्यत्वेन सजातीयव्यवच्छेदसम्भवेऽपि जात्यादेविलक्षणजात्यभावेन विजातीयत्वाभावाद्यवच्छेदाभावप्रसङ्गः स्यात् । तस्मादेतत्परित्यागेन व्यवहारैसिद्धिर्वा लक्षणप्रयोजनमित्युदयनाचार्याः । अत्र चे प्रयोजनान्तरानुक्तेवृद्धोक्तं फलमेव ग्राह्यम् । तथा च लक्ष्यादितरमात्रव्यवच्छेदो लक्षणप्रयोजनं भवेत् । एवं चे गन्धवत्त्वस्य पृथिवीतरमात्रावृत्तेः पृथिवीलक्षणं युक्तम् । विमतं पृथिवीति व्यवहर्तव्यम् , गन्धवत्त्वात्, व्यतिरेकेण जलादिवदिति व्यवहारसिद्धिः प्रयोजनम् । [वा. टी.] गन्धवतीत्यत्र गन्धमानं विवक्षितम्, न सुरभ्यादि । तेन नाव्याप्तिरिति द्रष्टव्यम् । ननु पृथिव्या अनित्यत्वेऽवयवनाशेनैव नाशेऽवयवानवस्थानादवघेरभावात् , ततश्च मेरुसर्षपयोस्तुल्यपरिमाणत्वापत्तिः । तेन विनैव नाशेऽवयवध्वंसेऽपि कार्यकारणत्वं स्यात् । नित्यत्वेऽनुपलब्धिबाधः, प्रमाणभावश्चेत्यत आह-सा द्वेधा इति । (परमाणुलक्षणम् ) पूर्वा परमाणुरूपा । क्रियावान्नित्यः परमाणुरिति सामान्यलक्षणम् । [ब. टी.] नित्य इति । आकाशादावतिव्याप्तिवारणाय क्रियावानिति। घटादावतिव्याप्तिवारणाय नित्य इति । मनोऽपि परमाणुरिति नातिव्याप्तिः। यदि मनोव्यावृत्तपरमाणोलक्षणम्, तदा द्रव्यारम्भप्रयोजिका क्रिया विवक्षितेति नातिव्याप्तिः। [अ. टी.] परमाणोः किं लक्षंणमित्यत आह-क्रियावानिति। घटादिव्यवच्छेदार्थ नित्यपदम् । आत्मादिव्यवच्छेदार्थ क्रियावानिति। ननु मनस्यतिव्यापकमेतत् । न च मनोऽपि परमाणुरेव, मूर्तत्वे सति सदी स्पर्शशून्यं मन इति वक्ष्यमाणमनोलक्षणे स्पर्शशून्यपदेन परमाणुव्यावर्तनात् । पाकावस्थायां क्षणस्पर्शशून्यपार्थिवाणुव्यवच्छेदाय "सदेति विशेषणाच। न च लक्ष्यव्यवच्छेदो युक्त इति । उच्यते-क्रियावानिति द्रव्यारम्भकत्वस्य क्रियावत्त्वप्रयुक्तस्य विवक्षितत्वान्मनसि च तदभावान्नातिव्याप्तिः । [वा. टी.] परमाणुरूपेत्यनेन महत्त्वाभावादनुपलब्धिबाधस्तदवधिनानवस्थादोषश्च परिहृतो भवति । प्रमाणं चाग्रत एव वक्ष्यति । आकाशनिवारणार्थ क्रियेति । व्यणुकनिवारणार्थ नित्य इति । नन्विदं पृथिवीपरमाणुलक्षणम् ? परमाणुसामान्यलक्षणं वा ? आधेऽतिव्यापकम् , द्वितीये प्रमाणाभावः । १ भावप्रसङ्ग इति झ. २ सिद्धिरेवेति ट. ३ चेति नास्ति ज. ४ वृद्धोक्तमेव युक्तमिति ज. ते नास्ति ज. ६ वृत्ताविति झ. ७ फलमिति झ. ८प्रयोजनमिति नास्ति. ९ लक्षणमत इति ज. ट. १० व्युदासार्थमिति ज. ट. ११ सर्वदेति ज. ट. झ. १२ अस्पर्शवदिति ट. १३ क्षणमिति ट.. १४ अणुकेति झ. १५ सर्वदेति ट. १६ भारम्भकत्वप्रयुक्तस्य क्रियावत्वस्येति झ.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120