Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
६०
प्रमाणमञ्जरी
[ गुण
निश्चयः । विवादपदं शुक्त्यादिप्रवृत्तिजनकरजतत्वप्रकारकज्ञानविषयत्वं साध्यम् । तेन सर्वं रजतमित्याहार्यज्ञानेन नार्थान्तरम् । सर्वं रजतमिति खारसिको भ्रमः सम्भवत्येव, न तत्सम्भवेऽपि तज्ज्ञानं न प्रवर्तकं, रजतत्वेन यस्य कस्य ज्ञानस्य प्राप्तत्वात् । एवञ्च या व्यक्तिः न प्रवर्तकरजतबुद्धिविषया, तत्र व्यभिचारवारणाय रजतेच्छुपदम् । नच रजतेच्छाविषयत्वमेव हेतुरस्तु, यथोक्तविशेष्यविशेषणभावे वैयर्थ्याभावात् । नं च शुक्तिरजतेति समूहालम्बनमादायैवार्थान्तरं प्रवृत्तिविषयांशे रजतत्ववैशिष्ट्यावगाहिज्ञानविषयत्वस्यै साध्यत्वात् । इदमाहोखिन्नैवमिति व्यवहारः पक्षः, व्यवहार्यज्ञानमागच्छत्पक्षधर्मताबलादेकधर्मि गततया विरुद्धनानाधर्मावगाहि सिध्यति । तदेव संशयः । ईश्व रज्ञानपूर्वकत्वेनार्थान्तरवारणाय व्यवहार्येति । न हीश्वरज्ञानं विरुद्धकोटिरूपव्यवहाविषयक, तस्य भ्रान्तत्वापत्तेः । व्यवहार्यपूर्वकत्वमात्रे साध्ये बाधः, व्यवहार्यस्य व्यवहाराजनकत्वात्, उद्देश्यासिद्धिश्चेत्यत आह- ज्ञानेति । घटादिव्यवहारे सिद्धसाधनमतः आहोखिन्नैवमिति । इहेति । उत्कटकोटिकसंशयान्तर्भाव इत्यर्थः । किंसंज्ञकोऽयं वृक्ष इत्याद्यनध्यवसायस्य बाधितसंज्ञाविषयत्वांशे भ्रमत्वमिति बोध्यम् । स्वप्नस्येति । कस्यचिद्विरुद्धो भयकोटिकस्य स्वप्नस्य संशयेऽन्तर्भाव इति केचित् । परे तु स्वप्नत्वं निश्वयत्वव्याप्यमित्याहुः । स्वमत्वसंशयत्वे मानसत्वव्याप्ये । एवं संशयत्वं चाक्षुषानुमित्यादावपीति केचित् ।
[अ. टी.] अर्थस्य शब्दादेवग्रहः स्फुरणं बुद्धिः । ज्ञानातिरिक्तार्थसङ्ग्रहाय अर्थपदम् । बाधिता अपहृतविषया बुद्धिरविद्या । विवादपदं शुक्त्यादि । घटांर्थिनः प्रवृत्तिविषये रजतबुध्यनालम्बने व्यभिचारवारणाय रजतादिपदम् । नन्वनध्यवसायः स्वप्रश्चाविद्याभेदौ किमिति नोच्येते ? तत्राह - अनध्यवसायश्चेति । किंसंज्ञकोऽयं वृक्ष इत्याद्यनध्यवसायस्यानिश्चयात्मकत्वेऽपि बाधाभावात् कथमविद्यात्मकत्वमिति चेदुच्यतेसंज्ञाविशेषस्यानिश्चयदशायां देशादिभेदेनानेकधा स्फुरतो व्यवस्थितैकसंज्ञानिश्चयेन कोट्यन्तरस्यापहारादविद्यात्वं न दुष्यति । स्वप्नस्य जाग्रद्बोधेन बाधादविद्यात्वं स्फुटमेव । न च निद्रादुष्टमनोजन्यज्ञानं स्वप्न इति लक्षणं भेदकम्, प्रतीन्द्रियदोषभेदादविद्याभेदप्रसङ्गात् ।
[वा. टी . ] अर्थेति । अवग्रहणम् ग्रहः, ज्ञानमिति यावत् । अर्थशून्यवदिति निरासाय अर्थपदम् । मानसेति । जानामीति मनोजन्यापरोक्षप्रत्यये सिद्धे इत्यर्थः । बाधिता अपहृतविषयेत्यर्थः । यन्मतम् — इदं रजतमिति पुरोवर्त्तिग्रहणदेशान्तरस्थस्मरणात्मकं ज्ञानद्वयम् ( न ? ) विशिष्टमेकं विपर्ययाख्यं ज्ञानम्, प्रमाणाभावादिति तद्दूषयति — विवादपदमिति । शुक्त्यादीत्यर्थः। घटेऽतिव्याप्तिपरिहाराय रजतेच्छ्रिति । अतो यदरजते रजतबुद्धिस्सैव विपर्यय इति । इदमिति पुरोवर्त्ति, एवमाहोखिदिति स्थाणुस्स्यान्नेति, स्थाणोरन्यः पुरुषो वेत्यर्थः । व्यवहार्यौ
च.
१ भागे इति च. २ न चैतदिति समूहेति छ. ३ विषयत्वसाध्येति च. ४ इदमा होस्विदिति ५ संशयं तत्रैवेति छ. ६ मानसत्वे इति छ. ७ अतद्गतेति ट. ८ विवादास्पदमिति श. ९ घटादीति ट. १० रजतादित्सुपदमिति ज, द. ११ यस्येति ज, ट.
१२ जाग्रत्वे बाध इति ट.

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120