Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 107
________________ - प्रमाणमसरी [सामान्यवात्तत्यागश्चायुक्त इत्याह अपसिद्धान्तेति । सत्त्वं हेतुत्वेनोपम्यस्तम् । स्थायित्वे वाक्य प्रमाणं तदाह स्थायित्वे विति। सम्प्रतिपन्ना व्यावृत्तिः, स्वशब्देन कर्मणो विवक्षितत्वात्तदुत्पत्त्यनन्तरक्षणभावी भावो वा सम्प्रतिपन्नः। इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचिते कर्मपदार्थः । [वा. टी.] शङ्कते यत्सदिति । क्षणद्वयस्थित्यभावादिति उत्पत्तिक्षणादन्यलक्षणस्थितेरभावादित्यर्थः। किंवा क्षणादिति । उत्पत्तिक्षणादित्यर्थः । सिद्धसाधनत्वोक्त्या एवंविधं क्षणिकत्वमनारम्भे प्रयोजकमिति सूचितम् । व्यावृत्तिरपोहरूपं सामान्यम् । अनैकान्तिकतां परिहरति अथेति । भिन्नत्यत्र नित्येति शेषः । एवं वदतानुमानमभ्युपगतं न वा ? नाद्य इत्याह व्यावृत्ताविति । स्खलक्षणं भावस्वरूपम् । न द्वितीय इत्याह अपसिद्धान्तेति । सिद्धसाधनतापरिहाराय खोत्पत्तीति । तस्मान्न लक्षणा इति कर्मसम्भव इत्युपसंहारो द्रष्टव्यः । इति प्रमाणमञ्जरीटीकायां कर्मपदार्थः । (सामान्यलक्षणम् तत्र प्रमाणश्च) नित्यमनुगतं सामान्यम् । तत्र प्रमाणं प्रत्यक्षम् । अथैतत्कल्पनाज्ञानमिति चेत्-न; कल्पनात्वस्य विकल्पानुपपत्तेः। तथाहि किं-निर्विषयत्वं कल्पनात्वम् ? किं वा शब्दसंपृक्तार्थप्रतिभासकत्वम् ? आहोस्वित्स्मरणानन्तरभावित्वम् ? इति। नाद्यः; इदमित्यबाधितधीविषयत्वात्।नापि द्वितीयः; अर्थे शब्दाभावात् । भावे चार्थस्य श्रोत्रपरिच्छेद्यत्वं स्यात् । शब्दस्य चाश्रोत्रेन्द्रियग्राह्यत्वं प्रसज्येत । न तृतीयः; इन्द्रियसन्निकर्षानुविधायिनो बाधस्य स्मृत्यनन्तरभावित्वेऽपि विरोधाभावात् । रूपस्मरणजननानन्तरमुपजातस्य रससाक्षात्कारस्याभ्युपगतप्रामाण्यस्याप्रामाण्यप्रसङ्गाच्च। सामान्यानभ्युपगमे लिङ्गलिङ्गिनोरविनाभावस्य दुर्ज्ञानत्वात् अनुमानस्यानुष्ठानं न स्यात् । धूमधूमध्वजानामनन्तानामुपसङ्ग्राहकाभावात्। [ब. टी.] नित्यमिति । बहुत्वादावतिव्याप्तिभङ्गाय नित्यमिति । अवृत्तिपदार्थेऽतिप्रसक्तिभङ्गाय अनुगतमिति । न च विशेषादावतिव्याप्तिः, अनेकवृत्तित्वस्यानुगतशब्दार्थत्वात् । न चात्यन्ताभावादावतिव्याप्तिः, अनेकसमवेतत्वस्योक्तत्वात् । नाद्य इति । विषये गोत्वरूपे बाधाभावात् । विषयं विनैव जायमानत्वरूपकल्पनात्वं नास्तीत्यर्थः । अर्थ इति । रूपादिवदर्थशब्दाभावात् न शब्दसम्पृक्तार्थविषयकत्वलक्षणं कल्पनात्वमित्यर्थः । भावे चेति । शब्दग्राहकेनैव तत्सम्पृक्तार्थग्रहणे घटादेरपि श्रोत्रग्राह्यता स्यादित्यर्थः । शब्दसम्पृक्तस्य च चक्षुरादिग्राह्यत्वे शब्दस्यापि तत्स्यादित्याह शब्द . १ च युक्त इति ट. २ टिप्पणक इति ट. ३ एतदिति नास्ति क पुस्तके. ४ पदमिदं नास्ति क पुस्तके. ५ वेति नास्ति क पुस्तके. ६सर्वस्येति क. ७ इन्द्रियेति नास्ति ख, ग, घ पुस्तकेषु. ८. क पुस्तके. ९ धूमेति नास्तिक पुस्तके. १० अनेकेति नास्ति च पुस्तके. ११ तदिति च.

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120