Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[ कर्म
नित्यपरिमाणेऽतिव्याप्तिः स्यादतः असमवायिकारणपदम् । कारणरूपादिविभागपदव्यवच्छेद्यं पूर्ववत् । केवलसंयोगजनके कर्मण्यतिव्याप्तिनिरासार्थं सजातीयपदम् । तत्र किं प्रमाणम् ? प्रत्यक्षं कुतः ? इत्यत आह तत्प्रत्यक्षमिति । तर्ह्यदृष्टादिवद्योगिप्रत्यक्षगेम्यमेवेत्यत आह घटकर्मेति । परमाण्वादिसमवेतेषु विशेषेषु व्यभिचारवारणार्थं घटपदम् । घटसमवेतगुरुत्वादौ व्यभिचारवारणार्थं गुणान्यत्वे सतीत्युक्तम् ।
९२
[ वा. टी. ] गुणनिरूपणानन्तरं सामान्याधारतया कर्म लक्षयति - एकद्रव्येति । आद्यविभागनिराकरणाय एकद्रव्येति । विनश्यदवस्थकर्मण्यव्याप्तिनिराकरणाय सजातीयमिति । सजातीयत्वं ये घटादावतिव्याप्तिः । तथाच कर्मत्वयोगि कर्मेत्युक्तं भवति । घटकर्मेति । गुरुत्वेऽतिव्याप्तिपरिहाराय गुणान्यत्वे सतीति । ततो यच्चलतीति यत्प्रत्ययालम्बनं तत्कर्मेति सिद्धम् ।
*
( कर्मणोऽसमवायिकारणत्वाभावशङ्का तत्समाधानञ्च )
यत् सत्, तत्क्षणिकम्, यथा जलधरः । सन्तश्चामी भावा इति क्षणद्वयस्थित्यभावादारम्भकत्वानुपपत्तिः कर्मण इति चेत्-न; विकल्पानुपपत्तेः । तथाहि-क्षणे भवः क्षणिकः, तस्य भावः क्षणिकत्वम् ? किंवा क्षणादूर्ध्वं न तिष्ठतीति क्षणिकः, तस्य भावः क्षणिकत्वम् ? आये कल्पे सिद्धसाधनम्, स्थायित्वपक्षेऽपि तत्सम्भवात् । न द्वितीयः, व्यावृत्तावनैकान्तात् ।
अथ भावाद्भिन्ना व्यावृत्तिर्नास्तीति चेत्-न; व्यावृत्तावसत्यां खलक्षणानां क्षणिकत्वेनाविना भावस्याशक्य ग्रहत्वादभ्युपगतस्यानुमानस्यासम्भवप्रसङ्गादपसिद्धान्तप्रसङ्गाच्च । तस्मात् सत्त्वं न क्षणिकत्वे प्रमाणम् । स्थायित्वे तुं विप्रतिपन्नं कर्म, खोत्पत्तिंक्षणेतरक्षणस्थं, सत्त्वात्, सम्प्रतिपन्नवदिति ।
" इति तार्किकभट्टकेसरि सर्वदेवसूरिविरचितायां प्रमाणमञ्जर्यां कर्मपदार्थस्समाप्तः ।
[ब. टी. ] कर्मणः कारणान्तरेऽसम्बद्धस्योक्तासमवायिकारणत्वमाक्षिपति - यदिति । एतस्य मते उदाहरणसहित उपनय इत्यवयवद्वयम् । सत्त्वमर्थक्रियाकारित्वम्, जनकत्वमिति यावत् । सन्तश्चेत्युक्त्या द्रव्यादीनामपि क्षणिकत्वेन कारणत्वमाक्षिप्तम् । आर
१ व्यवच्छेदार्थं विभागपदमिति ट २ गम्येति नास्ति झ पुस्तके. ३ पदमिदं नास्ति ज, ट पुस्तकयोः. ४] गुरुत्वान्यत्व इति ट ५ तथा किमिति क. ६ अपीति नास्ति क पुस्तके. ७ अभावप्रसङ्गादिति ख, ग, घ. ८ क्षणिकत्वेन साधनमिति मु, न व्यावृत्तावसत्यां स्वलक्षणानां क्षणिकत्वे प्रमाणमिति घ. ९ प्रमाणमिति १० क्षणादन्यक्षणस्थमिति मु, क्षणेतरक्षणे सदिति क. ११ इति कर्मपदार्थ इति क, ख, ग, घ १२ सरवन्त्विति च.
मु.

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120