Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता . [अ. टी.] त्रिवर्गो द्रव्यगुणकर्माख्यः, तदन्तर्गतत्वं तद्वृत्तित्वम् । शाबलेयः शबल- . वर्णो गौः । कर्मव्यक्तीनां परस्परसजातीयत्वेन सिद्धसाधनताव्युदासार्थ शाबलेयसजातीयमित्युक्तम् । तत्सजातीयत्वञ्च कर्मणो न गोत्वादिनेत्यतिरिक्तसत्तासिद्धिः । अपरसामान्ये तर्हि किं प्रमाणम् १ तदाह कार्यगुण इति । सत्ताजातिमत्वेन सिद्धसाधनताव्युदासार्थ कर्मव्यावृत्तपदम् । गुणे द्रव्यत्वासम्भवात्कर्मणो व्यावृत्ता जातिर्गुणत्वमेव । कार्यत्वञ्चात्र कर्माद्यन्यत्वविशेषितं हेतुत्वेन द्रष्टव्यम् । कर्मणोऽपि सत्ताजातिमत्वेन सिद्धसाधनताव्युदोसाय गुणव्यावृत्तपदम् । तथापि द्रव्यत्वे किं प्रमाणं तदाह काल इति । द्रव्यत्वात् गुणवत्वादित्यर्थः । इदानीं द्रव्यत्वावान्तरजाति साधयति विप्रतिपन्न इति । व्यावृत्तासाधारणजातिः, तद्वन्तः । द्रव्यत्वजातिमत्वेन सिद्धसाधनताव्युदासाथै द्रव्यत्वावान्तरपदम् । शब्दस्यासमवायिकारणाश्रये व्योमादौ व्यभिचारवारणार्थ ज्ञानपदम् । रसो रूपादिव्यावृत्तजातिमानित्यादिप्रयोगों रसादिषु, ततो गुणत्वावान्तरजातिसिद्धिः। एवं कर्मत्वावान्तरजातिरपि साध्येत्याह उत्क्षेपणादिषु चेति । उत्क्षेपणमपक्षेपणादिव्यावृत्तजाति( मत् , जाति ?) मत्वात् गोवेदित्यादिप्रयोगः ।
इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचिते सामान्यपदार्थः । [वा. टी.] अत्र बहुवृत्तित्वन्यूनवृत्तित्वोपाधिप्रयुक्त्या द्विविधमेव सामान्यमित्याह तच्चेति । ननूपाधिद्वयस्यैकत्र सम्भवात्परापरमपि स्यादिति न वाच्यम् । तथात्वेऽनन्तोपाधिकल्पनया त्रित्वनियमो न स्यादिति द्वैविध्यमेव युक्तमिति । कर्मेति । कर्मान्तरेण सिद्धसाधनतापरिहाराय शाबलेयेति । शबलवर्णस्यापत्यं शाबलेयः । स्त्रीभ्यो ढक् । तज्जातीयत्वञ्च कर्मणो न गोत्वादिनेल्यतिरिक्ता जातिस्सिद्धा । सा च सत्तेति । शेषं स्पष्टम् ।
इति सामान्यनिरूपणम् ।
(विशेषनिरूपणम् ) निस्सामान्य एकेनैव समवायी विशेषः। तत्र प्रमाणम्-मनो मनोsन्तरव्यावृत्तनिस्सामान्यसमवायि, द्रव्यत्वात् , गोवदिति । नित्या आकाशादयो विशेषवन्तः नित्यद्रव्यत्वात् मनोवदिति । स नित्यः सत्वे सति जातिशून्यत्वात्सत्तावदिति।।
इति तार्किकचक्रचूडामणिसर्वदेवसूरिविरचितायां
प्रमाणमञ्जर्या विशेषपदार्थस्समाप्तः।
तद्वर्तित्वमिति ट. २ व्यवच्छेदायेति ज, ट. ३ शब्दाद्यसमवायीति ट, शब्दासमवायीति ज. ४ प्रयोगादिति ट. ५ गोत्ववदिति ट. ६ टिप्पणके इति ट. ७ पदमिदं नास्ति क, घ पुस्तकयोः. ८ जातीति नास्ति घ पुसके, सामान्येति ग. ९इति विशेष पदार्थ इति क, ख, ग, घ.

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120