Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 113
________________ १०० प्रमाणमञ्जरी [ विशेष [ब. टी.] निस्सामान्य इति । गुणादावतिव्याप्तिभङ्गाय निस्सामान्य इति । सामान्येऽतिव्याप्तिवारणाय एकेति । एकमात्रसमवायीत्यर्थः । सम्बन्धविशेषेणैकमात्रसमवायित्वं विवक्षितम् । तेन परमाणुविशेषस्य कालादौ वृत्तावपि नासम्भवः । सम्ब न्धाविशेषेण परमाणुमात्रवृत्तौ पाकजरूपादिध्वंसेऽतिव्याप्तिवारणाय समवायीति । मनोऽन्तरेति । समवायीत्युक्ते गुणेनार्थान्तरैम्, अत उक्तं निस्सामान्येति । सामान्येनार्थान्तरवारणाय मनोऽन्तरव्यावृत्तेति । बाधवारणीय अन्तरेति । घटव्यावृत्तमनस्त्वेनार्थान्तरवारणाय मन इति । मनोनिष्ठात्ममनस्संयोगध्वंसेनार्थान्तरवारणाय समवायीति । अनुमानन्तु - आकाशादि मनोव्यावृत्तनिस्सामान्यसमवायि मनोभिन्नद्रव्यत्वात् घटवदित्यादि बोध्यम् । हेतुस्तु मनोऽन्तरव्यावृत्तद्रव्यत्वं तेन न मनोऽन्तरे व्यभिचारः । सामान्यादौ च न व्यभिचारः । इदानीं विशेषत्वेन रूपेणाकाशादौ विशेषं साधयति नित्य इति । आकाशादय इत्यादिपदेन परमाण्वादिपरिग्रहः । घटादिपरिग्रहे बाघभङ्गाय नित्या इत्युक्तम् । नित्यगुणादिपरिग्रहेण बाधवारणायाकाशादिपरिग्रहेण द्रव्यं गृहीतम् । तथा च नित्यद्रव्याणि मनोव्यतिरिक्तनित्यद्रव्याणि वा पक्ष: । घटादौ व्यभिचारभङ्गाय नित्येति । नित्यपरमाण्वादौ व्यभिचारवारणाय द्रव्यत्वविशेषणम् । अन्ये तु पक्षे नित्यग्रहणे नित्यद्रव्यैकवृत्तित्वसूचनायेत्याहुः । तत्र पक्षविशेषणकृत्यस्योक्तत्वात् । स इति । प्रागभावे व्यभिचारवारणाय सत्यन्तम् । भावत्वे सतीति तदर्थः । घटादौ व्यभिचारवारणाय विशेष्यभागः । अन्य निरूपितसमवायरहितत्वादिति तदर्थः । इति विशेषपदार्थः । [अ. टी.] समवाँयी विशेष इत्युक्ते संयोगादावतिव्याप्तिस्स्यादत एकेनेत्युक्तम् । अनेकसमवायिन एकसमवायित्वमप्यस्तीति स एव दोषस्स्यादत एवेत्युक्तम् । एकेनैव समवायिरूपादिव्यवच्छेदाय निस्सामान्यत्वविशेषणं द्रष्टव्यम् । मनसो निस्सामान्यमनस्त्वादिसमवायित्वेर्न सिद्धसाधनताव्युदासायं मनोऽन्तरव्यावृत्तेत्युक्तम् । मनोऽन्तरव्यावृत्तसमवायीत्युक्ते परिमाणसमवायित्वेन सिद्धसाधनता स्यादतो निस्सामान्यपदम् । तथाप्याकाशादिषु कथं विशेषसिद्धिरत आह नित्या इति । नित्यद्रव्यैकवृत्तित्वसूचनार्थं नित्यग्रहणम् । तन्नित्यत्वं तर्हि कथं तत्राह स नित्य इति । जातिशून्यत्वादित्युक्ते प्रागभावे व्यभिचारस्स्यादत उक्तम् सत्त्वे सतीति । इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचिते विशेषपदार्थः । [ वा. टी. ] सम्बन्धिनिरूपणेनाकाङ्क्षितत्वाद्विशेषं विशदयति निस्सामान्य इति । संयोगनिराकरणाय एकेनेति । सामान्यनिराकरणाय निस्सामान्य इति । अनेकसमवेतं यत्तदेकसमवेतं १ तत इति च. ५ सतीत्यर्थ इति च. ९ व्युदासार्थमिति ज, ट. २ सम्बन्धविशेषेणेति च. ६ पदार्थनिरूपणमिति च. १० टिप्पणके इति ट . ३ इतः पदत्रयं नास्ति च पुस्तके. ४ भङ्गायेति च. ७ समवायीतीति झ. ८ समवायित्वे इति झ.

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120