Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
[ अभाव
सन्दिग्धव्यभिचारः । व्याप्तिग्रहेणानुमितेरेव तद्विरहे तत एवानुमितिविरहात् न तादृशः सन्दिग्धव्यभिचारो दोषः, किन्तु साध्याभाववत्तया निश्चिते हेतुमत्तया सन्दिग्धे सन्दिग्धव्यभिचारो दोष इति पर्यालोचनीयमिति । यन्मिश्रबलभद्रेण निरटङ्कीह किञ्चन । तच्छोधयन्तु सुधियस्सारासारविवेचकाः || इति श्रीविष्णुदास त्रिपाठितनूजमाध्वीपुत्रमिश्रश्रीबलभद्रकृता प्रमाणमञ्जरीटीका समाप्ता ॥
१०६
प्रमाणमञ्जरी
·
[अ. टी.] स्वाभिमते निर्वाणे प्रमाणमाह तत्रापीति । बाधन्युदासार्थं कदाचित्पदम् । जलादिपरमाणुषु व्यभिचारवारणार्थम् अनित्यविशेषगुणत्वादित्युक्तम् । पाके पार्थिवपरमाणूनामुक्तसाध्यवत्वम् । अथवा क्रमेण सर्वमुक्त्यङ्गीकारादत्यन्तोच्छेद एव, पार्थिवाणु - विशेषगुणानां पुनः प्राणिभोगार्थं सृष्ट्यनारम्भात् । आकाशेऽनैकान्तिकत्वमाशङ्कयाह, नाकाश इति । सपक्षत्वान्न व्यभिचार इत्यर्थः ।
प्रमाणमञ्जरीव्याख्या समासेन विनिर्मिता । संविदारण्यतुष्ट्यर्थमद्वयारण्ययोगिना ॥
इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचितेऽभावपदार्थस्समाप्तः ।
[वा. टी] ननु मोक्षखरूपे वादिनां विप्रतिपत्तेरेवंविध एव मोक्ष इत्येतस्मिन्नर्थे किं प्रमाणमत आह तत्रेति। तस्मिन्नित्यर्थः । नान्यस्मिन्मानमित्यपि सूचितम् । सिद्धसाधन परिहाराय अनित्येति । तत्र चागमः- “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति । आकाशे व्यभिचारमाशङ्क्य परिहरति नाकाश इति । सपक्षत्वादिति भावः ।
शाके बाणगजत्रिचन्द्रगणिते वर्षे सुभानौ शुमे देशे घाडपदाङ्किते धृतवति श्रीपद्मनाभे विभौ । लक्ष्मीशाङ्घ्रि......तुलसीकृष्णाङ्गभूतनोयाख्याकोविद भट्टवामन इमां लक्ष्मीपतिप्रीतये ॥ टीकेयं न भवेत्प्रीत्यै मत्सरग्रस्तचेतसाम् । तथापि सुजनानन्ददायिनी कल्पतां चिरम् ॥ इति वामनभट्टविरचितायां प्रमाणामञ्जरीटीकायां अभावपदार्थस्समाप्तः ।
॥ समाप्तोऽयं ग्रन्थः ॥
: पदमिदं नास्ति च पुस्तके. २ पुनः प्राणीमि नाति ८ पुस्तके, ३ पद्ममिदं नाखि ट पुस्तके.

Page Navigation
1 ... 117 118 119 120