Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
१०४
[अभावयदि जीवनध्वंसो मरणं तदाप्यभावस्वीकारः । कृष्णादिशरीरवियोगोऽपि मरणं स्थादतः पञ्चम्यन्तम् । स्खनिष्ठादृष्टक्षयादित्यर्थः। तेन न जीवादृष्टक्षयप्रयोज्यभगवकलेवरध्वंसो मरणमिति बोध्यम् । अपरे तु-उपनिबन्धकादृष्टक्षय एव मरणमिति निजगदुः । ननु सोऽप्यधिकरणात्मेत्यत आह निखिलेति । यत्किञ्चिद्विशेषगुणवृत्तेः संसारितादशायां वर्तमानत्वेनातिव्याप्तिं वारयितुं निखिलेत्युक्तम् । रूपादिध्वंसस्य मुक्तित्वं वारयितुम् आत्मेति । आत्ममनस्संयोगादिध्वंसस्य मुक्तित्वापत्त्या मनःप्रवृत्तेरपि मुक्तत्वापातं वारयितुं विशेषेति । गुणाभावमात्रं न मुक्तिरित्यत उक्तम् विलय इति । ध्वंस इत्यर्थः । इदन्तु परमतसिद्धं लक्षणमिति कृत्वा दोषो नेह विचार्यते । न चायं विलयोऽधिकरणात्मा, मुक्तेरजन्यत्वापातेनापुरुषार्थत्वापातात् । पररहस्यमुद्धाटयति अथेति । दृश्य इत्यनेन प्रतियोगिनः प्रामाणिकत्वमानं सूचयितुम् , यद्वा योग्याभावस्य योग्यतानिहाय दृश्य इत्युक्तम् । प्रतियोगिविशिष्टस्याधिकरणस्याभावत्वं वारयितुं केवलेति निजगदे । प्रतियोग्यज्ञानदशायामभावव्यवहारं वारयितुं ज्ञायमान इत्युक्तम् । अधिकरणस्वरूपसत्तादशायामभावव्यवहारातिप्रसक्तिवारणाय उपलम्भ इत्युक्तम् । अधिकरणेत्युपरञ्जकम् । यद्वा अप्रकृताधिकरणेऽभावव्यवहारं वारयितुम् अधिकरणपदं प्रकृताधिकरणपरम् । सुप्त इति । तथा च निद्राभङ्गप्रसङ्ग इति निगर्वः । प्रतियोगिज्ञाने संति ज्ञानाभावादिति । परस्येति । लिङ्गादिनेत्यर्थः । तथा च प्रतियोगिज्ञानघटिताधिकरणोपलम्भरूपो भावः प्रत्यक्षो न स्यादिति भावः । प्रतियोगिनोप्रत्यक्षत्वे प्रतियोगिलैङ्गिकज्ञानादिना भावव्यवहारेऽतिप्रसक्तिमाह नेति । वस्तुतस्तु-अभावमन्तरेण कैवल्यमेव निरूपयितुं न शक्यमित्यन्यत्र प्रपञ्चः । [अ. टी. निष्प्रतियोगिकनिषेधासम्भवात् भावनिषेध इत्युक्तम् । विनाशी प्रागभावः। अन्यथा नित्यः । समानाधिकरणोऽयं न भवतीति निषेधः । ननु प्राभाकरा अभावं न मन्वत, तान् प्रति प्रमाणं वाच्यम्, तत्राह-नात्रेति । निद्राद्यङ्गीकारे कथमभावाङ्गीकार इत्यत आह धिषणेत्यादि । धिषणा बुद्धिः । निर्वाणं प्रध्वंसः । उपनिबन्धकं देहारम्भकम् । एकदेशेनात्मविशेषगुणविलयः संसारदशायामप्यस्तीति निखिलपदम् । तदीयं रहस्यमुत्थापयति अथेति । ज्ञायमाने स्मर्यमाणे दुःखाँदिविशिष्टाधिकरणोपलम्भे दुःखाभावव्यवहारप्रसङ्गवारणार्थ केवलपदम् । तस्मर्यमाणेऽपि प्रतियोगिन्यभावव्यवहारः प्रसक्तस्तत्राह-(अथेति ?)। प्रतियोगिनि ज्ञायमान इत्युक्तं तर्कबलेन दूषयति मैवं वोच इति । यदि सुप्तस्य प्रतियोगिविज्ञानं तर्हि स स्वप्नेऽपि प्रबुद्धस्स्यादतो नाद्यः कल्पः । धिषणानिर्वाणं हि निद्रा । ततस्सा प्रतियोगिभूता बुद्धिः, सा च परस्य प्रत्यक्षा न भवति । तथापि यथाकथञ्चिज्ज्ञायत इति शङ्कते परस्येति । यथाकथञ्चिलिङ्गेनेत्यर्थः । तथाप्यधिकरण
१ स्वीकृत इति च. २ क्षयादि इति च. ३ आदिति नास्ति च पुस्तके. ४ इतः पदचतुष्टयं नास्ति च पुस्तके. ५भावाभावादिति छ. ६ विषय इति ट. ७दुःखाविशिष्टेति ट. ८ उक्तमिति नास्ति ट पुस्तके.

Page Navigation
1 ... 115 116 117 118 119 120