Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
टीकात्रयोपेता
निरूपणम् ]
१०५
स्याप्रत्यक्षत्वात्प्रतियोगिविषयलैङ्गिकज्ञानमात्रेण तन्निषेधव्यवहारेऽतिप्रसङ्ग इत्याह नेति । अभावानङ्गीकारे केवलशब्दार्थ एव दुर्निरूप इति न लिङ्गेनापि केवलाधिकरणोपलम्भ इति भावः । निगमयति तस्मादिति ।
[वा. टी] प्रतियोगिभावनिरूपणानन्तरमभावं निरूपयति भावेति । अभावनिषेधेऽतिव्याव्याप्तिपरिहाराय भावेति । समानाधिकरणनिषेधो नाम तादात्म्यनिषेधः । धिषणानिर्वाणं चाक्षुषादिज्ञानाभावः । उपनिबन्धकं देहप्रमाणादिसम्बन्धघटकम् । कलेवरविलयो नाम देहस्य प्राणादेर्वियोगः । कियद्विशेषगुणविलयः संसारदशायामप्यस्तीति निखिलेत्युक्तम् । प्रमाणयोग्ये बुध्यादावनुभूयमाने आत्ममात्रोपलम्भ एव निद्रादिरिति खयमेव तन्मतमाशङ्कते अथेति । परिहरति मैवमिति । विज्ञानमित्यत्र प्रत्यक्षं विवक्षितमानुमानिकं वा ? तत्राद्यं द्विधा विकल्प्य दूषयति आद्य इत्यादिना । द्वितीयं शङ्कते अथेति । आनुमानिकज्ञानमात्रेणाधिकरणावगतौ तन्निषेधेऽतिप्रसङ्ग इति दूषयति नेति । परमाणुष्विति शेषः । उपसंहरति तस्मादिति ।
*
( मोक्षे प्रमाणम् )
तत्रापि मोक्षे प्रमाणम् - आत्मा कदाचिदशेषविशेषगुणशून्यः, अनित्यविशेषगुणत्वात्, पार्थिव परमाणुवदिति । नाकाशे व्यभिचारः, तस्यापि तथा साधनात् ।
इति तार्किकचक्रचूडामणि सर्वदेवविरचितायां . प्रमाणमञ्जर्याम् अभावपदार्थस्समाप्तः । ॥ इति प्रमाणमञ्जरी समाप्ता ॥
[ब.टी.] स्वाभिमते मोक्षे प्रमाणमाह आत्मेति । जलपरमाणौ व्यभिचारवारणाय विशेषेति । विशेषपदार्थस्य ध्वंसो नास्त्येव । विशेषपदेन धर्मविशेषग्रहणे जलपरमाणौ व्यभिचारः, तत्रापि संयोगादीनां सत्त्वात् । विशेषपदेनैव विशेषगुणग्रहणे फलतो न विशेषः । बाधवारणाय कदाचिदिति । परिमाणादेरध्वंसात् बाधवारणाय विशेषेति । यत्किश्चिद्विशेषगुणध्वंसेनार्थान्तरवारणाय अशेषेति । आत्मा संसार्यात्मा | गुणपदादानेऽशेषस्य धर्मविशेषस्य परिमाणादेः ध्वंसासम्भवाद्बाधस्स्यात्तदर्थं गुणपदम् । यद्यपि पार्थिवपरमाणुर्न दृष्टान्तः, पक्षसमत्वात्, तथाप्यनुमानान्तरे तात्पर्यमवगमनीयम् । तथेति । आकाशस्य पक्षसमत्वात् उक्तरूपसाध्यवत्वसाधनादित्यर्थः । न हि पक्षे पक्षमे वा व्यभिचार इति भावः । वस्तुतस्तु हेतुमत्तया निश्चिते साध्यवत्तया सन्दिग्धेन
१ दुर्जेय इति ट. २ तत्र मोक्षे इति मु; तत्रापि मोक्षप्रमाणमिति घ. ३ गुणवशादिति ख, गुणवत्वादिति ग, घ. ४ इति तार्किकसर्वदेवसूरिणेति क, ख; इति श्रीमत्तार्किकचूडामणिसर्वदेवेति ग, इति तार्किकसर्वदेवसूरि प्रणीतेति घ. ५ पदमिदं नास्ति च पुस्तके.
प्रमाण० १४

Page Navigation
1 ... 116 117 118 119 120