Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 115
________________ प्रमाणमञ्जरी [समवायस इति । प्रागभावे व्यभिचारवारणाय भावत्वे सतीत्युक्तम् । घटादौ व्यभिचारभङ्गाय विशेष्यभागः। असम्बन्धत्वादित्युक्तौ दृष्टान्तासिद्धिः स्वस्वरूपासिद्धिश्च स्याताम् । अत उक्तम् असमवेतत्वादिति । सिद्धान्तभूतं समवायैकत्वं साधयति विवादमिति । पक्षसाध्ययोः प्रत्ययपदं बाधादिवारणाय, समवायस्य निर्विषयत्वात् । सविषया इत्युक्तेर्थान्तरम् , अभिन्नविषया इत्युक्तेऽपि । प्रत्ययेनेत्याधुक्तेऽपि घटादिप्रत्ययेनाभिन्न विषयत्वादबाधश्च । देवदत्तेति । विशेषणपरिहारे पक्षीभूतसमवायप्रत्ययेनाभिन्न विषयत्वसिध्या सिद्धसाधनं स्यात् , तद्वारणाय देवदत्तेति विशेषणम् । अभावप्रत्यये व्यभिचारभङ्गाय समवायेति । साधनवैकल्यपरिहाराय प्रत्ययत्वादिति । सम्प्रतिपन्नेति । देवदत्तसमवायप्रत्ययवदित्यर्थः । यद्वा घटकपालसमवायातिरिक्ताः समवायाः घटकपालसमवायादभिन्नाः समवायत्वात् , घटकपालसमवायवत् इति तर्कस्तु लाघवाख्यः । द्रव्यादाविहाकारानुमतप्रतीत्यभावप्रसङ्गश्च बोध्यः । अतो नाप्रयोजकता, सम्बन्धिभेदेन बहुत्वोपचारः। ____ इति समवायः। [अ. टी.] संयोगव्यवच्छेदाय नित्यपदम् । आत्मादिव्युदासाय सम्बन्धपदम् । संयोगे सत्ताया वर्तमानत्वात्ततो निवृत्त्यसम्भवात्तद्विलक्षणसमवायसिद्धिः । अस्मदादिप्रत्यक्षः समवाय इति मतं व्युदस्यति समवाय इति । घटादिसंयोगव्युदासीय परमाणुसम्बन्धत्वादित्युक्तम् । लक्षणांशभूतं नित्यत्वं साधयति स नित्य इति । असमवेते प्रागभावे व्यभिचारो मा भूदिति सत्त्वे सतीत्युक्तम् । घटादौ व्यभिचारवारणार्थम् असमवेतत्वपदम् । समवायस्यैकत्वमभिमतं साधयति विवादमिति। देवदत्तसमवायप्रत्ययादन्ये समवायप्रत्ययाः पक्षः । खखसमवायप्रत्ययाभिन्नविषयत्वेन सिद्धसाधनताव्युदासाय देवदत्तपदम् । घटादिप्रत्यये व्यभिचारवारणाय समवायप्रत्ययत्वादित्युक्तम् । इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचिते समवायपदार्थः । [वा. टी.] निरूपिते सम्बन्धिनि सम्बन्धं निरूपयति नित्य इति । संयोगनिराकरणाय नित्य इति । आकाशनिराकरणाय सम्बन्ध इति । सत्तेति । विशेषादिव्यावृत्तत्वेन सिद्धसाधनतापरिहाराय सम्बन्धादिति । यतस्सम्बन्धाद्यावृत्तस्सम्बन्धस्समवाय इति । न च तादात्म्येनार्थान्तरता, विरुद्धयोस्तादात्म्यासम्भवादिति । घटपटसम्बन्धनिवृत्तये परमाणुपदम् । समवायानित्यत्वे आकाशपरिमाणादेरसम्बद्धस्यैवावस्थानं स्यात् । तच्च सिद्धान्तविरुद्धमिति नित्यत्वं साधयति स नित्य इति। सम्बन्धत्वादेवास्य प्राप्तमनेकत्वं वारयति विवादमापन्ना इति। देवदत्तसमवायप्रत्ययादन्यस्समवायप्रत्ययः । विवादपदशब्दार्थे घटादिप्रत्ययनिवारणाय समवायेति । भेदप्रत्ययस्तु रूपादिव्यचकभेदनिमित्त इति ज्ञेयम् । इति समवायः। १ विषयत्वाभावाद्वाधश्चेति च. २ वारणायेति च. ३ प्रत्ययेति नास्ति च पुस्तके. ४ यथेति च. ५ पदार्थ इति च. ६ व्यावर्तेति ज, ट. ७ व्यवच्छेदायेति ज, ट. ८ टिप्पणक इति ट.

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120