Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 114
________________ निरूपणम्] टीकात्रयोपेता भवत्येवेति पुनरपि सामान्येऽतिप्रसङ्गस्तदर्थम् एवेति । न च विशेषाभावाल्लक्षणासम्भवः, सामान्य तस्तत्सिद्धेः । अस्ति तावदस्माकं गोघटादिषु व्यावृत्तप्रत्ययानिमित्तप्रसिद्धिः, तथायोगिन तुल्याकृतिगुणादिषु परमाण्वादिषु व्यावृत्तप्रत्ययान्निमित्तं वाच्यम् । न च विशेषाणामिव स्वत एव व्यावृत्तप्रत्ययजनकत्वं तेषाम् , जात्यादिरहितत्वेनाल्यन्तविलक्षणत्वात्तथात्वं युक्तम् , अन्यथा विशेषत्वमेव न स्यात् । प्रकृते च जात्यादिना सारूप्याद्यावृत्तधीनिमित्तेन भवितव्यं, यन्निमित्तं स एव विशेष इत्याशयवांस्तत्र प्रमाणमाह तत्रेति । गुणसमवायित्वेन सिद्धसाधनतापरिहाराय निस्सामान्येति। मनस्त्वेन तां परिहरति मनोऽन्तरव्यावृत्तमिति । दृष्टान्तसिद्धावन्यत्रापि विशेषं साधयति नित्या इति । घटनिवृत्तये नित्येति । विशेषाणामनित्यत्वप्रलयावस्थायां साङ्कर्यप्रसङ्गस्यादित्याशयवान्नित्यत्वं साधयति स नित्य इति । प्रागभावनिवृत्तये सत्त्व इति। ___इति विशेषपदार्थः। (समवायनिरूपणम् ) नित्यस्सम्बन्धस्समवायः सत्तासम्बन्धान्निवर्तते जातित्वाद्गोत्वव दिति। तत्र प्रमाणम्-समवायोऽस्मदाद्यप्रत्यक्षः, परमाणुसम्बन्धत्वात्तत्संयोगवत्। स नित्यः, सत्वे संत्यसमवेतत्वात् , परमाणुवत् । विवादमापन्नाः समवायप्रत्ययाः देवदत्तसमवायप्रत्ययेनाभिन्नविषयाः, समवायप्रत्यय त्वात्, सम्प्रतिपन्नसमवायप्रत्ययवदिति समवाय्येकत्वसिद्धिः। इति तार्किकचूडामणिसर्वदेवसूरिविरचितायां प्रमाणमञ्जों समवायपदार्थस्समाप्तः। [ब. टी.] नित्य इति । आत्मादावतिव्याप्तिवारणाय सम्बन्ध इति । संयोगेऽतिव्याप्तिवारणाय नित्य इति । सामान्यविशेषान्यत्वे सति निस्सामान्यभावत्वं तल्लक्षणमृह्यम् । अतः शक्त्यादिरूपे नित्ये सम्बन्धे नातिव्याप्तिः । सत्तेति । सत्ताजातिरित्यर्थः । तेन स्वरूपसत्तायाः समवाये वर्तमानत्वेऽपि न बाधः । निवृत्तिमात्रे वक्तव्ये सामान्यादिनिवृत्त्यार्थान्तरम्, अतः सम्बन्धादित्युक्तम् । द्विष्ठसम्बन्धानिवर्तत इत्यर्थः । संयोगत्वादिस्तु पक्षसम इति न व्यभिचारः । सत्तायाः संयोगानिवृत्त्यसम्भवे पक्षधर्मताबलात्समवायसिद्धिः । यद्वा जातिमात्रं पक्षः । वैशेषिकराद्धान्ते समवायाप्रत्यक्षत्वं साधयति समवाय इति । घटपटसंयोगे व्यभिचारवारणाय परमाणुनिष्ठत्वं विशेषणम् । पृथिवीत्वादी व्यभिचारवारणाय सम्बन्धत्वोक्तिः। अणुसम्बन्धत्वादित्येव हेतुः तेन न परमपदवैयर्थ्यम् । लक्षणासम्भवं परिहतुं नित्यत्वं साधयति १ तदि नास्ति क, ख, ग पुस्तकेषु, परमाणुसंयोगवदिति घ. २ सति समवेतत्वादिति घ.३ समवायत्वादिति ख. ४ इति समवायपदार्थ इति क, ख.; इति प्रवीणतार्किकसर्वदेवसूरिप्रणीतायाम् इति ग, इति सर्वदेवरिप्रणीतायामिति घ. ५ पशिरियं नास्ति च पुस्तके. ६ संयोगनिवृत्तीति च.

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120