Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 111
________________ ९८ प्रमाणमञ्जरी [ सामान्य त्वात् गुणवत्वादित्यर्थः । यद्वा द्रव्यपदप्रवृत्तिनिमित्तत्वेन हेतुता, तस्य जातित्वे विवादः, न तु धर्मत्वं इति भावः । ननु कालादिमात्रवृत्तिजीच्यार्थान्तरमिति चेत्घटादिः गुणव्यावृत्ते कालवृत्तिजातिमान् संयोगवत्वात् कालवदित्यर्थान्तरवरणात् । विप्रतिपन्ना इति । अत्र परस्परव्यावृत्तत्वविशेषणम् । तेन नोभयवृत्त्येकं जात्यार्थान्तरम् । तत्तत्स्पर्शवत्वोपाधिनार्थान्तरवारणाय जातीति । एकैकवृत्तिकालादिवृत्तिजात्यार्थान्तरभङ्गाय व्यावृत्तान्तम् । घटत्वादिनार्थान्तरनिरासाय विप्रतिपन्ना इति । विप्रतिपत्तिविषयत्वावच्छेदेनैका जातिस्सिध्यतीति भावः । युक्त्यन्तरेण पृथिवीत्वादिसाधनं ग्रन्थान्तर ऊह्यम् । यथा च चतुर्मात्रनिष्ठैका जातिर्न सिध्यति तथा तत्रैव बोध्यम् । आत्मेति । संसार्यात्मेत्यर्थः । तेन न भागसिद्धिः, ईश्वरस्याष्टगुणवत्वात् । उपाधिनार्थान्तरवारणाय जातीति । सत्तयार्थान्तरखारणाय अवान्तरेति । द्रव्यत्वेनार्थान्तरवारणाय द्रव्यत्वेति । तेन द्रव्यत्वन्यूनवृत्तिजातिमानित्यर्थः । आकाशादौ व्यभिचारनिरासाय चतुर्दशेति । गुणविभाजकोपाधिना विजातीयचतुर्दशत्वसंख्यावच्छिन्नधर्मवत्वादिति हेत्वर्थः। तेन चतुर्दशँविभागवति गगनादौ न व्यभिचारः । चतुर्दशशब्दवाच्यत्वेन गुणा गृहीताः । तेनान्ये चतुर्दश पक्षे, अन्ये च दृष्टान्त इत्यसिद्धिर्न । ज्ञानादिमत्वेनेश्वरेऽपि तज्जातिसिद्धिः । यद्वात्ममात्रपक्षीकरणेऽष्टगुणादिमत्वं हेतुः । न च प्रथम हेतौ चतुर्दशत्वं व्यर्थम्, तस्य सप्तत्वाद्यघटितत्वात् । ज्ञानेति । श्रोत्रे ज्ञानकारणमनस्संयोगवति व्यभिचारवारणाय असमवायीति । शब्दासमवायिकारणवति गगने व्यभिचारवारणाय ज्ञानेति । गुणत्वव्याप्यजातिं साधयति कार्यमिति । नित्यरूपे भागासिद्धिवारणाय कार्येति । घटादिनार्थान्तरवारणाय ध्वंसे रसादौ च बाधवारणाय रूपमिति । रसादिव्यावृत्तभावकार्यत्वं हेतुः । आदिपदेनेतरे गुणा ग्राह्याः । कर्मव्यावृत्तजातेर्गुणस्यैव सिद्धत्वात् । आदिपदेन द्रव्यग्रहे दृष्टान्तासिद्धिस्स्यात् । उपाधिनार्थान्तरवारणाय जातित्वमुक्तम् । रसव्यावृत्तजातिमत् गन्धव्यावृत्तजातिमदित्यादि पृथगेव साध्यम् । यद्वा रसव्यावृत्तो गन्धरूपनिष्ठो ( वा १ मा ) सिध्यतु इत्येकमेव साध्यम् । न चादिपदेन कर्माग्रहणे रसव्यावृत्तरूपकर्मनिष्ठजातिसाध्यापत्तिः, सदाकारप्रतीतेः सत्तयैवोपपत्तेः, रूपकर्ममात्रनिष्ठविलक्षणानुगतप्रतीतेरभावात् भावे वा रूपकर्मान्यतरत्वेनैव तदुपपत्तेः, तादृशजातेरनुभवसिद्धत्वात् । एवमिति । कार्यरसः रूपादिव्यावृत्तजातिमान् कार्यत्वात् गोवत् । उत्क्षेपणम् अपक्षेपणादिव्यावृत्तजातिमत् कार्यत्वाद्गोवदित्याद्यनुमानं कर्मत्वावान्तरजातिसाधकं बोध्यम् । अपक्षेपणादिभिन्नसमवेतधर्मवत्वं वापक्षेपणादिव्यावृत्तजातिसाधने हेतुः । 1 इति सामान्यम् । १ धर्मे इति च. २ जात्यादिनेति च. १३ वारणायेति च. ६ वारणायेति च. ७ संयोगादिवदिति च. ८ सिध्यापत्तिरिति च. ४ विभागेति च ५ भङ्गायेति च. ९ पदार्थ इति च.

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120