Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
९६
प्रमाणमलरी
[सामान्य तस्मात् सविषयत्वादित्यर्थः। विपर्ययनिरासाय अबाधितेत्युक्तम् । अथै शब्दाभावादिति। अर्थस्य शब्दात्मकत्वाभावादित्यर्थः। तथात्वे दोषमाह भावे चेति । अश्रोत्रग्राह्यत्वं श्रोत्रान्येन्द्रियग्राह्यत्वम् । अर्थस्य तत्तदिन्द्रियग्राह्यत्वात्तदात्मकत्वादिदं सदिति प्रत्ययस्येत्यर्थः । विरोधे चातिप्रसङ्ग इत्याह रूपेति । तस्य प्रामाण्यमेव नेत्यत आह अभ्युपगतेति । प्रसङ्गाचेत्यस्यानन्तरं तस्मात्क ल्पनात्वानुपपत्तिरिति प्रन्थसंहारो द्रष्टव्यः। दूषणान्तरमाह सामान्येति ।
*
__ (सामान्यस्यावस्तुत्वशङ्का तत्समाधानञ्च) अथ मतम्-वस्तुभूतं सामान्यं नास्ति । तथाप्यतयावृत्तस्सामान्यस्य विद्यमानत्वात् । तदुपसङ्ग्राहकादनुमानं प्रवर्तत इति चेत्-न; तद्ध्यावृत्तेरवस्तुत्वादुपसङ्ग्राहकाभावात् । तस्माद्वस्तुभूतं सामान्यमङ्गीकर्तव्य॑म् । [ ब. टी. ] अतद्व्यावृत्तेरिति । अधूमव्यावृत्तेरवहिव्यावृत्तेरित्यर्थः । वस्तुन एव सूत्रादेः पुष्पादिसङ्ग्राहकत्वदर्शनात्तव मते च व्यावृत्तेरेव वस्तुत्वान्नोपसङ्ग्राहकत्वमित्याह नेति । वस्तुतस्तु धूमोऽयमित्यादिबुद्धौ धूमत्वादिकमेवाखण्डं प्रतीयते, तेनातव्यावृत्तिः। किश्च धूमव्यावृत्तिरित्यत्रापि धूमत्वं (किम् ? यद्यधूमव्यावृत्तिरेव तदोन्मत्तप्रलापः । धूमत्वं) सामान्यश्चेत्परमतस्वीकार इत्यलमतिपल्लवेन । [अ. टी.] तथापि त्वदभिमतं सामान्यं न सिध्यतीति शङ्कते अथ मतमिति । धूमसामान्यं नाम अधूमपदार्थव्यावृत्तिः । अग्निसामान्य नाम अनग्निपदार्थव्यावृत्तिः । तयोरतव्यावृत्त्योरविनाभावादनुमानं प्रवर्तते । तेन भावरूपसामान्यापेक्षा नास्तीत्यर्थः। वस्तुभूतस्येव सूत्रादेः पुष्पादिसङ्ग्राहकत्वदर्शनाव्यावृत्तेश्वावस्तुत्वान्नोपसङ्ग्राहकत्वमित्याह नेति । [वा. टी.] किमित्यनुमानभङ्गः ? अतद्यावृत्तेस्सामान्यस्याङ्गीकारात् । धूमवत्वं नाम अधूमवद्यावृत्तिः, अग्निमत्वं वा अनग्निमध्यावृत्तिः । तदविनाभावादनुमानं वर्तत इत्याशङ्कते अथ मतमिति । परिहरति नेति । वस्तुभूतस्येव सूत्रादेः पुष्पाद्युपसङ्ग्राहकत्वदर्शनाद्यावृत्तरवस्तुत्वान्नोपसङ्ग्राहकत्वमित्यर्थः । फलितमाह तस्मादिति ।
(परसामान्यमपरसामान्यञ्च, तत्र प्रमाणञ्च) तत् परमपरश्च । तत्र परं सत्ता, त्रिवर्गान्तर्गतत्वात् । अपरं द्रव्यस्वादि, अल्पविषयत्वात् । तत्र प्रमाणम्-कर्म शाबलेयसजातीयं, कार्यत्वात्, बाहुलेयवदिति । कार्यगुणः कर्मव्यावृत्तजातिमान् , कार्यत्वात्, तुरगवदिति कर्मत्वसिद्धिः। कर्म गुणव्यावृत्तजातिमत्, कार्यत्वात् , देवा
सामान्यमेवेति क. २ तथापि तदिति घ. ३ उपसङ्ग्राहकत्वेति क, ग. ४ अङ्गीकार्यमिति ग, घ. ५ धूमेत्यारभ्य यदीत्यन्तो भागो नास्ति छ पुस्तके. ६ परमिति नास्ति ग, घ. ७ इतः पदवयं नास्ति क, ग, घ पुस्तकेषु. ८ जातिमानिति ख, घ.

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120