Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
.
टीकात्रयोपेता
९५ स्येति । यद्वा शब्दसम्पृक्तशब्देन यद्यभेदः शब्दार्थयोरुक्त इति द्वितीयः पक्ष उक्तस्तत्राह अर्थ इति । शब्दाभावात् शब्दभेदाभावादित्यर्थः। भावे चेति । शब्दाभेद इत्यर्थः । अर्थाग्रहे शब्दोऽपि श्रोत्रेण न गृह्येत, तयोरभेदादित्याह शब्दस्येति। यदि शब्दसम्पृक्तत्वमर्थस्य शब्दवाच्यं तदा तस्याबाधितस्योपनीतस्य चक्षुरादिना ग्रहेऽपि न ग्रहस्य कल्पनात्वमित्युपरि बोध्यम् । यदि शब्दनिरूपितो बाधितस्सम्बन्धो घटादौ भासते तदा भ्रम एवेति बोध्यम् । तृतीयं पक्षमास्कन्दयन्नाह नेति । बोधस्य गोत्वविषयकस्य स्मृत्यनन्तरं भवतीत्येतावन्मात्रेण कल्पनात्वेऽतिप्रसक्तमाह रूपेति । कल्पनात्वस्य वक्तुमशक्यत्वे सामान्यमङ्गीकार्यमित्यधस्तन ग्रन्थेनोक्तम् । सम्प्रत्यनङ्गीकारे दोषमाह सामान्यानभ्युपगम इति । तत्र हेतुः धूमधूमध्वजानामिति सामान्यलक्षणानङ्गीकारे सकलधूमव्यक्तौ बहुतरसाध्यव्यक्तिव्याप्यत्वाग्रहे नियतधूमाद्वयनुमानं न स्यादित्यर्थः। [अ. टी.] अनुगतं सामान्यमित्युक्ते संयोगादावतिव्याप्तिस्स्यात् अतः नित्यपदम् । नित्येऽननुगतेऽन्त्ये विशेषादौ तब्यदासाय अनुगतपदम् । अनुगतत्वैमनेकसमवेतत्वम् । गौौरित्याउनुगतप्रत्ययरूपं प्रत्यक्षमुक्तम् , तदाक्षिपति अथेति । कल्पनाज्ञानत्वादस्याप्रामाण्यं वाच्यम्, तदयुक्तम् तदनिरूपणादित्याह नेति । इदं गोत्वमित्यादिप्रत्ययस्य बाधाभावान्न निर्विषयत्वपक्षो युक्तः । रूपादिसम्पृक्तवद्धटादीनां शब्दसम्पृक्तत्वं नास्तीति । ततो न द्वितीयः । विपक्षे दण्डमाह भाव इति । शब्दग्राहकेणैव शब्दसम्पृक्तार्थग्रहणे श्रोत्रग्राह्यत्वं घटादेरपि स्यात् । यदि च शब्दसम्पृक्तस्याँपि चक्षुरादिग्राह्यत्वं तर्हि शब्दस्यापि तत्स्यादित्याह शब्देस्येति । बोधस्य गोत्वप्रत्ययस्येत्यर्थः। किञ्च स्मृत्यनन्तरभावित्वमात्रेण सामान्यप्रत्ययस्य कल्पनात्वेऽतिप्रसङ्गस्स्यादित्याह रूपस्मरणेति । अतस्सामान्यप्रत्ययस्य कल्पनात्वानिरूपणात्सामान्यमङ्गीकार्यम् । अनङ्गीकारे दोषाच तदङ्गीकार्यमित्याह सामान्यानभ्युपगम इति । अनुष्ठानं प्रयोगः । उपसङ्ग्राहकस्य सामान्यधर्मस्य व्यतिरेकेऽनन्तव्यक्तीनामन्वयव्यतिरेकव्याप्स्योर्ज्ञातुमशक्यत्वान्न तत्पूर्वकानुमानप्रवृत्तिस्स्यादित्यर्थः । [वा. टी.] पदार्थत्रयवृत्तित्वात्सम्बध्यमानाकासितत्वाच्च सामान्यं निरूपयति नित्यमिति । आकाशनिराकरणाय अनुगतमिति । अनुगतमनेकसमवायि। संयोगादिनिराकरणाय नित्यमिति । तत्रेति । इदं सदिदं सदिति गौौरित्यनुवृत्तप्रत्यय एव मानमित्यर्थः । आक्षिपति अथैतदिति । इदं सदिदं सदित्यादि ज्ञानमित्यर्थः। शब्दसम्पृक्तत्वं नाम शब्दात्मसत्वम् । इदमित्यस्यायमर्थः-इदं सदित्यादिज्ञानस्याबाधितत्वेन विषयत्वात् विषयो विद्यते यस्य तद्विषयं तस्य भावस्तत्त्वं,
वाच्यस्वमिति च. २ बोध्य इति छ. ३ विषयस्येति च. ४ अनुगत समवेतत्वेनेति ज, पदद्वयं नास्ति ट पुस्तके. ५ सम्पृक्तत्वेति ट. ६ संयुक्तत्वमिति झ. ७ सम्पृक्तस्स्यादिति झ. ८ शब्दसम्पृक्तस्यापीति ट.९ शब्दस्य वेति ज, ट.१० अभावे इति ज, ट..

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120