Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 106
________________ निरूपणम् ] टीकात्रयोपेता ९३ भेकत्वेन सकलकारणरूपसामध्यभावादिति भावः । विकल्पेति । वक्ष्यमाण विकल्पेन सम्भवत्पक्षस्य क्षणिकत्वस्यानुपपत्तेरित्यर्थः । व्यावृत्ताविति । तत्र सन्वमस्ति क्षणिकत्वचे नास्तीति व्यभिचारादित्यर्थः । ननु व्यावृत्तिरपोहो मैया न मन्यते, किन्तु भावान्तरमेव से इति शङ्कते अथेति । व्यावृत्तावसत्यामिति । सकलसाध्यसाधनसङ्ग्राहकव्यावृत्तिरूपधर्माभावादिति भावः । वस्तुतस्तु हेतुमति क्वचित्क्षणिकत्वं व्यावर्तते न वा ? आद्यमाह व्यावृताविति । द्वितीयं शङ्कते अथेति । समाधत्ते व्यावृत्तावसत्यामिति । क्षैणिकत्वं हि क्षणमात्रावस्थायित्वमात्रपदार्थोऽस्तु स्वपूर्वोत्तरक्षणयोर्भावस्य व्यावृत्तिः । व्यावृत्त्य - नङ्गीकारे तद्घटितक्षणिकत्वस्य वक्तुमशक्यत्वेन व्याप्तिग्रहवैधुर्ये क्षणिकत्वसाधनत्वाभिमतानुमानस्याभावप्रसङ्गादित्यर्थः । किञ्च व्यावृत्त्यनङ्गीकारे भवदभिमतव्यतिरेकव्याप्तिभङ्गप्रसङ्गः । भावभिन्न नित्याभावस्य स्वीकृतस्य परित्यागेऽपसिद्धान्तमाह अपसिद्धान्तेति । ननु भवत्वतिरिक्ता व्यावृत्तिरिति चेत्-नः तदा भवदभिमत नित्यव्यावृत्तावेव व्यभिचारात्, क्षणिकत्वाभावाधिकरणस्यैव स्थैर्य स्वीकारापत्तेश्च । साध्याप्रसिध्या व्याप्तिग्राहकप्रमाणाभावत्वेनेव चरमशब्द एव साध्यप्रसिद्धिरिति वाच्यम् । तस्यापि स्थिरत्वाङ्गीकारात् । न च क्षणिकत्वाप्रसिध्या कथं क्षणिकत्वनिषेध इति वाच्यम् । घटः खाव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगी नेति निषेधशरीर स्वीकारात् । घटाव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगित्वस्य प्रतियोगिनो घट ? प्राङ्नष्टे वस्तुनि सिद्धेः । सम्प्रतिपन्नवदिति । सम्प्रतिपन्ना व्यावृत्तिः, स्वशब्देन कर्मणं उक्तत्वेन कर्मोत्तरक्षणे वर्तमानो भावो वा सम्प्रतिपन्न इति निगर्वः । इति कर्मपदार्थः । [अ. टी.] कर्मणोऽसमवायिकारणत्वमुक्तं, तदाक्षिपति यत्सदिति । सन्तश्चामी भावा इति । द्रव्यादीनामपि क्षणिकत्वेन कारणत्वमाक्षिप्तम् । लब्धसत्ताकानां कारणानां मेलने सामग्री, ततः कार्यजननमित्यनेकक्षणस्थित्यपेक्षणात् । क्षेणीभूते कारणत्वासम्भव इत्यर्थः । क्षणिकत्वे लक्षणसाध्यानिर्वचनान्मैवमित्याह नेति । क्षणे भवतीति क्षणेभवः । तत्सम्भवात् क्षणावस्थानसम्भवादित्यर्थः । व्यावृत्तिरपोहशब्दार्थभूतः, तस्य च व्याप्तिग्रहार्थक्रिया हेतुत्वात्सत्त्वमिति युक्ता तत्रानैकान्तिकता । अथ भावान्तरमेव भवान्तरापोहः, ततो नोक्तो दोष इति शङ्कते अथेति । इष्टहान्या परिहरति न व्यावृत्ताविति । स्वलक्षणं सर्वतो व्यावृत्तमसाधारणं भावरूपम् । अनुमानाभावे तत्प्रमेयत्वेनेष्टक्षणिकत्वहानिरित्यर्थः । भावाद्भिन्नस्य निर्यैस्याभावस्य स्वीकृत - १ आरम्भकत्वे सति क्षणिकत्वेन सकलकारणसम्बन्धं रूपेति छ. २ चेति नास्ति च पुस्तके. ३ मयेति नास्ति छ. ४ सेति च ५ पङ्क्तिरियं नास्ति च पुस्तके. ६ प्रसङ्ग इति नास्ति च पुस्तके. ७ पदमिदं नास्ति च पुस्तके. ८ सिद्धिरिति च. ९ सम्प्रतिपन्नेति च १० पदद्वयं नास्ति च पुस्तके. ११ क्षणिकत्वे इति ट. १२ भवति तिष्ठतीति ट. १३ भावान्तरेति नास्ति झ. १४ अव्याप्तमिति ट १५ स्वरूपमिति ज, द. १६ पदमिदं नास्ति झ पुस्तके.

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120