Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
२१
निरूपणम्]
टीकात्रयोपता एकद्रव्यविभागासमवायिकारणतावच्छेदकवत्कर्म इत्येव लक्षणार्थः । तेन न व्यर्थता । न च विनश्यदवस्थकर्मणि अविनश्यदवस्थकर्मत्वस्य विभागासमवायिकारणतावच्छेदकस्याभावादव्याप्तिरिति वाच्यम् । अविनश्यदवस्थतादशायां तत्रापि तत्सत्वात् । यद्वा एकद्रव्यं यद्विभागासमवायिकारणं तदवृत्तिपदार्थविभाजकोपाधिमत् कर्मेत्यर्थः । एकद्रव्यं कर्मेति वक्तव्ये परिमाणादावतिप्रसक्तिः, तन्निरासाय(?)परविशेषणम् । यत्तु केनचिदुक्तम्-केवलसंयोगजनके कर्मण्यव्याप्तिवारणाय सजातीयपदमिति, तन्नः संयोगजनके कर्मणि विभागजनकत्वस्यावश्यकत्वात् संयोगस्य पूर्वदेशविभागोत्तरकालीनत्वात् । तदिति। कर्मेत्यर्थः। न च परमाण्वादौ व्यभिचारः, तत्राप्यलौकिकप्रत्यक्षादिविषयत्वस्य प्रत्यक्षविषयमात्रस्यैव वा साध्यत्वात् । अतएवामदादिप्रत्यक्षमग्रे साधयिष्यति । विषयत्वादित्येव हेतुः, न तु प्रमाविषयत्वं हेतुः, व्यर्थविशेषणत्वात् । यद्वा-ज्ञानं द्वारीकृत्य साक्षात्सम्बन्धेन वावर्तमानमेव हेतुः। यद्वा-उद्देश्यसिद्धये प्रत्यक्षप्रमाविषयत्वं साध्यम् , तेनासद्वैशिष्ट्ये व्यभिचारवारणाय प्रमाविषयत्वं हेतुः । ननु लौकिकप्रत्यक्षविषयत्वं न सिद्धमत आह घटकर्मेति । अर्थान्तरवारणाय अस्मदादीति । नन्वस्मदादिना प्रमेय त्वादिना गुह्यत एवेत्यर्थान्तरमिति चेत् -न; लौकिकप्रत्यक्षविषयत्वस्य साध्यत्वात् । प्रत्यक्षत्वं जातिरिति न व्यर्थता। न त्विन्द्रियजन्यज्ञानता, येनेन्द्रियजन्यत्वभागवैयर्थं स्यात् । यद्वा-लौकिकज्ञानविषयत्वमेव साध्यम् । यद्वा-अलौकिकप्रत्यासत्यजन्यजन्यज्ञानविषयत्वे साध्येऽनुमित्यादिनार्थान्तरं स्यात् , तदर्थ प्रत्यक्षविशेषणम् । यत्त्वात्ममनस्संयोगेन लौकिकप्रत्यासत्यानुमित्यादिर्जन्यत एवेति प्रत्यक्षत्वविशेषणमिति, तन्नः एवमप्यलौकिकप्रत्यक्षेणार्थान्तरापातात् , तस्याप्यात्ममनस्संयोगजन्यत्वात् । तस्माद्राह्येणैव लौकिकसनिकर्षो लौकिकसन्निकर्षत्वेन कारणम् । तेनानुमित्यादौ न लौकिकता । यद्वाइन्द्रियत्वेनेन्द्रियनिरूपितस्संयोगादिः, तथानुमित्यादौ मनस्त्वेन मनोनिरूपितकारणं संयोगः । गुरुत्वादौ व्यभिचारं वारयितुं गुणान्यत्वे सतीति विशेषणम् । परमाणुसमवेतविशेषादौ दोषनिरासार्थ घटेति । साक्षात्समवायो विवक्षितः । तेन संयुक्तसमवायेन घटसमवेते विशेषादौ न व्यभिचारः। घटनिष्ठपरमाणुत्वात्यन्ताभावादी व्यभिचारवारणं समवेतविशेषणेन । अत्र प्रत्यक्षयोग्यता साध्या, तेनाप्रत्यक्षविशिष्टकर्मणि न बाधः । एवं पटकर्मादावपि साध्यम्, गुणान्यत्वे सति पटसमवेतत्वादिहेतुः । प्रत्यक्षनिष्ठकर्ममात्रपक्षीकरणे विशेषान्यत्वे सति गुणान्यत्वे सति प्रत्यक्षसमवेतत्वादिहेतुः।
[अ. टी.] निमित्तकारणसजातीयेश्वरप्रयत्नादातिव्याप्तिनिरोसार्थम् असमवायिपदम् । घटरूपाद्यसमवायिकारणतन्तुरूपादिव्यवच्छेदार्थं विभागपदम् । विभागासमवायिकारणविभागनिरासार्थम् एकद्रव्यपदम् । एकमेव द्रव्यमाश्रयो यस्य तदेकद्रव्यम् । कर्मेत्युक्ते
१ न संयोगस्येति छ. २ विषयत्वेति छ. ३ प्रत्यक्षत्वमिति च. ४ वर्तमानं ज्ञानत्वमेवेति च. ५ निरासायेति च. ६ ग्राह्यत इति च, ७ ज्ञानविषयत्वमिति च. ८ प्रत्यक्षत्वेति च, ९ आस्मानमित्यादाविति च. १० समवेतत्वेति च. ११ विनष्टेति च. १२ व्युदासार्थमिति ज, ट.

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120