Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता लयवदिति कर्मत्वसिद्धिः। कालो गुणव्यावृत्तजातिमान् , द्रव्यत्वात् , गोवदिति द्रव्यत्वसिद्धिः। विप्रतिपन्नाः पृथिव्यप्तेजोवायवः कालव्यावृत्तजातिमन्तः, स्पर्शवत्वाद्गोवदिति पृथिवीत्वादिसिद्धिः। आत्मा द्रव्यत्वावान्तरजातिमान् , चतुर्दशगुणवत्वात् , उदकवदित्यात्मत्वसिद्धिः। मनो द्रव्यत्वावान्तरजातिमत्, ज्ञानासमवायिकारणाश्रयत्वादात्मवदिति मनस्त्वसिद्धिः। कार्यरूपं रसादिव्यावृत्तजातिमत् कार्यत्वाद्गोवदिति रूपत्वसिद्धिः। एवं सर्वत्र रसादिष्ववगन्तव्यम् , उत्क्षेपणादिषु च।
इति तार्किकचक्रचूडामणिसर्वदेवसूरिविरचितायां
प्रमाणमञ्जयाँ सामान्यपदार्थस्समाप्तः। [ब. टी. ] त्रिवर्गेति । द्रव्यादित्रयवृत्तित्वादित्यर्थः । कर्मेति । शाबलेयः शबलवर्णो गौः, तद्वृत्तिजातिमानित्यर्थः। प्रमेयत्वादिनार्थान्तरवारणाय जातीति । कर्ममात्रजात्यार्थान्तरवारणाय शाबलेयेति । गोत्वादेः कर्मणि बाधात् पक्षधर्मताबलात्सत्तासिद्धिः । बाहुलेयः वर्णविशेषविशिष्टो गोपिण्डः । वन्ध्यागोपिण्ड इति केचित् । गुणत्वेऽपरसामान्य प्रमाणमाह कार्येति । नित्ये गुणे पक्षभागासिद्धिवारणाय कार्यपदम् । कर्मणो बाधवारणाय द्रव्ये च सिद्धसाधनवारणाय गुण इत्युक्तम् । सतया सिद्धसाधनवारणाय व्यावृत्तान्तम् । सामान्यादिव्यावृत्तया सत्तया पुनरप्यर्थान्तरवारणाय कर्मेत्युक्तम् । उपाधिना केनचिदर्थान्तरमुन्मूलयितुं जातीत्युक्तम् । द्रव्यत्वादिना गुणं परम्परासम्बन्धेनार्थान्तरतादवस्थ्यनिराकृतये मतुपा साक्षात्सम्बन्ध उक्तः । न च द्रव्यत्वस्य परम्परासम्बन्धेन कर्मण्यपि वृत्तित्वेन व्यावृत्तान्तविशेषणेनैव प्रयोजनस्य सिद्धत्वात् किं सम्बन्धस्य साक्षात्वविवक्षयेति वाच्यम् । आत्मवृतित्वगुणे आत्मत्वसम्बन्धित्वेनार्थान्तरवारणाय साक्षात्वस्य विवक्षितत्वात् । न चात्मत्वं परम्परासम्बन्धेन कर्मसम्बद्धमिति व्यावृत्तत्वविशेषणेनैककार्यस्य सिद्धत्वात्पुनरपि विवक्षाधिकेति वाच्यम् । कर्मवृत्तित्वघटकपरम्परासम्बन्धभिन्नात्मसम्बन्धस्य सुखादौ वृत्तेः कर्मव्यावृत्तिनिर्वाहिकायाँस्सत्वेनार्थान्तरतादवस्थ्यदौस्थ्यनिवारकत्वेन विवक्षाया विद्वन्मनीषाचमत्कारगोचरत्वात् , अन्यथा किमपि कुतोऽपि व्यावृत्तं न स्यात् । गुणत्वसमवायरूपोद्देश्यसिद्धये साक्षात्सम्बन्धस्य समवायरूपस्य मतुपोक्तत्वाच । भावत्वे सति कर्मत्वशून्यकार्यत्वहेतुरिति न कर्मणि ध्वंसे च व्यभिचारः । कर्मपक्षकानुमानेऽप्येवम् । काल इति सत्तयार्थान्तरवारणाय । व्यावृत्तमित्यादि पूर्ववत् । द्रव्य
१ गोवदिति नास्ति । पुस्तके. २ रूपत्वादीति मु. ३ साध्यमिति मु. ४ इति सामान्यपदार्थ इति क, ख, ग, घ. ५ जातिमदिति छ. ६ पदमिदं नास्ति च पुस्तके. ७ ध्वंसकर्मण इति च. ८सत्तायामिति च. ९ उक्त इति नास्ति च पुस्तके. १०, ११ वेति नास्ति च पुस्तके. १२ विवक्षानर्थेति च, १३ कायामिति च. १४ दोषेति च. १५ व्यावृत्तान्तरमिति च.
प्रमाण०१३

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120