Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 74
________________ निरूपणम् ] टीकात्रयोपेता स्थाणुपुरुषौ । अतो यदनेककोटिद्योतकमनिश्चयात्मकं ज्ञानं स एव संशयः । अनवगतसंज्ञकोऽनवधारणरूपोऽनुभवोऽनध्यवसाय उत्कटैककोटिकस्सन्देह ऊहः । एतयोरनवधारणत्वाविशेषाद्युक्तस्संशयानतिक्रमः, मिथ्यावधारणात्मकत्वात्स्वमस्य विपर्ययानतिक्रमः । ६१ * ( विद्यात्मिका बुद्धिः ) अबाधिता धीर्विद्या । सा द्वेधा - प्रमितिरन्यथा चेति । सम्यगनुभूतिः प्रमितिः । सा द्वेधा - प्रत्यक्षा इतरा चेति । तत्रापरोक्षा सा प्रत्यक्षा, परोक्षा सेतरा चेति । पूर्वा द्वेधा-प्रकृष्टधर्मजेतरभेदात् । पूर्वा योगिप्रत्यक्षा । तत्र प्रमाणम् - धर्मः कस्यचित्प्रत्यक्षः, प्रमेयत्वात्, वासोवदिति । यस्य स प्रत्यक्षः स योगी । उत्तरा अस्मदादीनां प्रत्यक्षा । (सविकल्पकबुद्धिः ) सा प्रकारान्तरेण द्वेधा - सविकल्पकनिर्विकल्पकभेदात् । विशिष्टविषयं सविकल्पकम् । तत्र प्रमाणम् -संविकल्पिका वुद्धिः प्रेमा, स्मृतिव्यतिरिक्तत्वे सति अबाधितबुद्धित्वात्, निर्विकल्पकवत् इति । [ ब. टी. ] अन्यथाचेति । स्मृतिरित्यर्थः । धर्म इति । बाधवारणाय कस्यचि - दिति । सामान्यज्ञानप्रत्यासत्यजन्मजन्यप्रत्यक्षविषयत्वं साध्यम् । अनुमित्यादिमतास्मदी दिनार्थान्तरवारणाय प्रत्यक्षत्वमुक्तम् । विषयत्वादित्येव हेतुः । आकाशादौ न व्यभिचारस्तस्य पक्षसमत्वात् । विशिष्टेति । विशिष्टविषयकमित्यर्थः । तेन विशिष्टपदार्थस्य विशेषणादिघटितत्वेन न व्यर्थता । तत्र प्रमाणमिति । अत्र यथार्थानुभवत्वं साध्यम् । स्मृतौ व्यभिचारवारणाय सत्यन्तम् । भ्रमे व्यभिचारवारणाय अबाधितेति । अबाधितार्थकबुद्धित्वादित्यर्थः । न त्वबाधिता चासौ बुद्धिश्चेत्यर्थः । भ्रमस्यापि स्वरूपेणाबाधिततया व्यभिचारापत्तेः । ईच्छादौ व्यभिचारवारणाय बुद्धित्वादिति । न च साध्यसमतया हेत्वसिद्धिः, संवादिप्रवृत्तिजनकत्वादिना हेतुसिद्धेः " । न च साध्यवैशिष्ट्यम्, प्रकृते हेतुसाध्ययोर्भिन्नरूपत्वात् । [अं. टी.] अन्यथा चेति । स्मृतिरित्यर्थः । कस्तर्हि योगीत्यत आह- यस्येति । गौरः कुण्डली ब्राह्मणोऽयं गच्छतीत्यादि सविकल्पकंम् कथमस्य प्रमाणत्वम् ? तत्राह तत्प्रमाणमिति । विपर्यासादौ व्यभिचारवारणार्थमबाधितत्वादित्युक्तम् । अबाधितार्थे व्यभि - चारवारणाय बुद्धिपदम् । अबाधितबुद्धित्वं स्मृतौ व्यभिचरतीति स्मृतिव्यतिरिक्तत्वे सतीत्युक्तम् । १ सेति नास्ति मुद्रितपुस्तके २ पूर्वमिति घ. ३ प्रत्यक्षमिति क, ख, ग, घ. ४ पदमिदं नास्ति क, ख. पुस्तकयोः. ५ दासीवदिति क, सामान्यवदिति ग. ६ स प्रत्यक्षो यस्य स इति ग, घ. ७ प्रत्यक्षमित्यधिकं मु. ८ पदत्रयं नास्तिक, घ, पुस्तकयोः, प्रमेत्यनन्तरं ज्ञानं प्रमाणमित्यधिकं ग पुस्तके, ९ प्रत्यक्षभित्यधिकं मु. १० अस्मदादीनाभिति छ. ११ द्रव्यादाविति छ. १२ सिद्धिरिति च.

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120