Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 81
________________ प्रमाणमञ्जरी ' गुणेप्रत्यक्षत्वं साधितम् । अनुमितौ व्यभिचारवारणाय अनुमितीति । विपर्यये व्यभिचारवारणाय प्रमितित्वम्।। [अ. टी.] तथापि परोक्षा प्रमितिलैंङ्गिक्येवेति भवतां नियमो न सम्भवति शब्दादिप्रमितिसम्भवादित्यत आह-वाक्यादिति । असन्निहितविषये प्रत्यक्षागोचरेत्यर्थः । जीवतो गृहे चासतो बहिस्सत्वबुद्धिरित्यर्थापत्तिमपि पक्षीकरोति-असत इति । प्रत्यक्षप्रमितौ व्यभिचावारणाय प्रत्यक्षतरपदम् । ननु यद्यप्यागमार्थापत्योरनुमानेऽन्तर्भावोऽभावस्य पुनस्सन्निहितविषय इह भूतले घटाभाव इति प्रामाण्याङ्गीकारात्कथमनुमानेऽन्तर्भाव इत्यत आह-सन्निहितविषयेति। अनुमितौ व्यभिचारव्युदासार्थं तदन्यपदम् । सम्प्रतिपन्नवत् प्रत्यक्षप्रमावदित्यर्थः। तथापि प्रत्यक्षानुमाने द्वे एव प्रमाणे कथम् ? उपमानादिसम्भवादित्यत आहशेष भाष्य इति । प्रत्यक्षतरप्रमितित्वमनुमानान्तर्भावगमकमुपमित्यादौ यद्यपि तुल्यम् , तथाप्यधिकमन्यत्र द्रष्टव्यमिति भावः। एवं विद्यायाः प्रमितिलक्षणो भेदः प्रपञ्चितः। [वा. टी.] ननु शाब्यादिप्रमितीनामपि सम्भवात् द्वैविध्यमसङ्गतमत आह-वाक्यादिति । प्रत्यक्षप्रमानिवृत्तये प्रत्यक्षेति । अयमाशयः-वाक्यं हि स्वार्थ संसर्ग(मर्यादया ?) बोधयल्लिङ्गखरूपेणैवानुसन्धीयमानमविनाभावबलेनैव बोधयति । तथाहि-देवदत्त गामभ्यानयेत्यत्रैतानि पदानि खस्मारितार्थसंसर्गज्ञानपूर्वकाणि, विशिष्टपदत्वात् , सम्प्रतिपन्नवदिति लिङ्गरूपेणावगतेन वाक्येन संसगंबोधः क्रियत इति युक्तं शब्दजन्यप्रमितेरनुमितित्वम् । अर्थापत्तिरप्यनुपपद्यमानार्थदर्शनादुपपादके बुद्धिः, साप्यनुमानमेवाविनाभावसम्भवात् । तद्यथा विमतो देवदत्तः बहिस्सन् ( जाववाहे ? जीवन् गृहे) असत्वात् यदेवं तदेवं यथाहमिति युक्तं तत्प्रमितेरप्यनुमितित्वम् । अनुपलब्धिजन्यया प्रमया त्रैविध्यं परिहरति-सन्निहितेति । प्रत्यक्षर्मिप्रतियोगिकाभावविषयेति यावत् । अनुमित्यन्येति । न चेन्द्रियाभावयोस्सम्बन्धाभावादनध्यक्षत्वमिति वाच्यम् । पञ्चविधसम्बन्धान्यतमसम्बन्धसम्बद्धपदार्थविशेषणविशेष्यभावत्वसम्भवादिति । समाद्यभावस्त्वागमादिनेति । तथाप्युपमानसम्भवान्न द्वैविध्योपपत्तिरत आह-शेषमिति । अतिदेशवाक्यार्थ (स्मणाचतः ? स्मरणाच्च ) पुंसो यद्गोपिण्डे गोसदृशोऽयमिति ज्ञानं तत्प्रत्यक्षमेव नोपमानम् । संज्ञासंज्ञिप्रमितिस्तु वाक्यफलमिति सूक्तं द्वैविध्यम् । (स्मृतिनिरूपणम् ) . उत्तरा स्मृतिः। सा अप्रमा, खविषये प्रत्यक्षानुमानान्यत्वात् इति सिद्धा बुद्धिः। [ब. टी.] उत्तरा अविद्येत्यर्थः। यद्यपि व्यधिकरणप्रकारकत्वरूपमविद्यात्वं सर्वत्र स्मृतौ न सम्भवति, यथार्थानुभवजनितस्मृतेयथार्थत्वात् , तथाप्यनुभवस्वराहित्यप्रयुक्त- विषये च भूतल इति ट, विषय एव भूतल इति ज. २ वारणायेति ज, अनुमितिव्युदासार्थमिति सम्भवादत इति ज, ट. ४ अनुमितीति ज, ट, ५ भावाङ्गमिति ट. ६अनुमित्यन्यप्रमावादिति मु. ७ विद्येति क ख; अविद्येति मु.

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120