Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 89
________________ प्रमाणमञ्जरी [ गुण अग्निसंयोगजक्रियाश्रयत्वेनार्थान्तरवारणाय गुणेति । जलपरमाणौ व्यभिचारवारणाय सत्यन्तम् । विशेषपदं विनैव व्यभिचारः । अनित्यविशेषेपदन्त्वसम्भवि, विशेषपदार्थस्य नित्यत्वात् । यदि विशेषपदेन पदार्थविशेष उच्यते, तदाप्यनित्यगुणवत्वमादाय स एव व्यभिचारः । आत्मनि व्यभिचारभङ्गाय भूतत्वादिति । यद्यपि विषयतयाग्निसंयोगजन्यज्ञानाश्रयत्वमात्मन्येव, तथापि वह्निसंयोगासमवायिकारणत्वैघटितं वह्निसंयोगासाधारणकारणत्वघटितं वा साध्यं तत्र नास्ति, तेन विशेषणेन विना व्यभिचारस्स्यादेव । गुणपदस्य कृंत्यदशायां गुणध्वंसेनार्थान्तरवारणाय द्वितीयसाध्यमादायोक्तम् । प्रथमे वा साध्ये उक्तं कृत्यान्तरं बोध्यम् । घटादौ व्यभिचारवारणाय नित्येति । वंशादावग्निसंयोगंजचटचटाशब्दमादाय वात्रस्य दृष्टान्तता । तैजसेति । द्रवत्वमात्रपक्षत्वे घृतादिद्रवत्वे बाधः । तैजसद्रवत्वपक्षीकरणे तैजसद्व्यणुकादिद्रवत्वे बाधः । तैजसपर - माणुनिष्टरूपादेरपि पक्षत्वे बाधः । अतो विशिष्टस्य पक्षताजन्यत्वमात्रसाधने सिद्धसाधनं, संयोगजन्यत्वसाधनेऽदृष्टवदात्मसंयोगेनार्थान्तरम्, अतः अग्नीत्यादि । असमवायिकारणत्वसिद्धये संयोगेति । उदकमनधिकरणं यस्य तत्वे सतीत्यर्थः । जलद्रवत्वे व्यभिचारवारणाय सत्यन्तम् । द्व्यणुकादिद्रवत्वे व्यभिचारवारणाय परमाण्विति । ७६ [अ. टी.] स्यन्दनं स्रवणं क्षरणं तत्कारणं सजातीयं द्रवत्वमित्युक्ते ईश्वरप्रयत्नादावतिव्याप्तिस्स्यादतः असमवायिपदम् । तथापि सत्तादिना तत्सजातीयसंयोगादौ व्यभिचारस्स्यादतः अत्यन्तपदम् । उत्तरस्यन्दनासमवायिकारणे पूर्वस्यन्दनोत्थसंस्कारे व्यभिचारवारणार्थम् आद्यपदम् । सद्यः शुष्कं द्रवत्वं क्षरणकारणं न भवतीत्यव्याप्तिनिरासार्थं सजातीयग्रहणम् । अयावद्द्रव्यभाविद्रवत्ववत्समवेतत्वेन सिद्धसाधनता मा भूदित्यत उक्तम् यावद्द्रव्येति । सम्प्रतिपन्नः स्थूलो जलावयवी । अनित्ये प्रमाणमाह - पार्थिवेति । सम्प्रतिपन्नं सुवर्णकाष्ठादिद्रवत्वं काष्ठाग्निसंयोगजद्रवत्वस्य प्रत्येक्षत्वेऽग्निपरमाणुषु तस्य किं गमकं तदाह - पार्थिवाः परमाणव इति । अग्निसंयोगजक्रियायोगित्वेन सिद्धसाधनतावारणाय गुणपदम् । तर्हि संयोगजसंयोगाश्रयत्वेन सिद्धसाधनता स्यादत एकद्रव्यपदम् । तर्ह्यग्निसंयोगजरूपाद्याश्रयत्वेन सिद्धसाधनता, तत उक्तं रूपादिचतुष्टयातिरिक्तेति । भूतत्वादित्युक्ते सैंलिलब्यणुकादौ व्यभिचारवारणार्थं नित्यपदम् । तर्हि सलिलादिपरमाणुषु व्यभिचारस्तत उक्तम् अनित्य विशेषगुणवत्वे सतीति । एतावत्युक्ते आत्मनि व्यभिचारस्स्यादत उक्तं नित्यभूतत्वादिति । द्रवत्वादित्युक्ते सलिलब्यणुकादिद्रवत्वे व्यभिचारस्स्यादत उक्तं परमाणुत्वादिति । एतावत्युक्ते सलिलपरमाणुद्रवत्वे व्यभिचारस्स्यादत उक्तम् उदकानधिकरणत्वे सतीति । द्रवत्वादित्युक्ते तैलादिद्रवत्वे १ सत्वेनेति च. २ विशेषवत्वमिति च. ३ लभ्यत इति च. ४ तथापीति च. ५ कारणघटितमिति च. ६ नास्तीति इति च ५ उत्पन्नेति छ. ८ द्वितीयेति नास्ति च पुस्तके. ९ प्रथमसाधनेति १० संयोगजन्येति च. ११ कीदृशस्येति च. १२ जलेति छ. १३ द्रवत्वमिति । प्रत्यक्षेति झ. १४ काष्टादिष्वग्नीति ट. १५ प्रत्यक्षत्वेऽपीति ज, ट. १६ सलिलादाविति ट. छ.

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120