Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
गुण
चतुर्दशेति । रूपस्पर्शविशेषगुणद्वयवति स्थूलतेजसि व्यभिचारवारणाय बहुपदम् 1 द्रवीभूतसर्पिषि तादृशं गुणान्तरं स्यान्न गुरुत्वमिति तत्राह तत्रेति । प्रकारान्तरेणोक्तं साध्यविशेषणं साधयति - घटगुरुत्वमिति । समवेतत्वादित्युक्ते शब्दबुध्यादौ व्यभि - चारस्स्यादतो घटपदम् । घटसमवेतद्वित्वादावनैकान्तिकत्वव्युदासाय बुद्धिजत्वविशेषणम् । अबुद्धिजन्यत्वे सति घटसमवेतसंयोगादिना व्यभिचारवारणायाक्रियाजन्यत्वविशेषणम् । घटसमवेत संयोगजसंयोगविभागजविभागाभ्यां व्यभिचारवारणायें तदन्यत्वविशेषणमपि द्रष्टव्यम् । तथाप्यन्यत्र कथं तस्य यावद्द्रव्यभावित्वसिद्धिस्तत्राह - सर्वत्रेति । साधनीयं यावद्द्रव्यभावित्वमिति शेषः । घटादिगुरुत्वस्य किं कारणं तदाह-अत एवेति । अत एव घटसमवेतत्वे सति यावद्द्रव्यभावित्वादेवेत्यर्थः । तद्दृष्टान्तेन घटरूपनिदर्शनेनेत्यर्थः । तर्हि रूपवत्प्रत्यक्षमपि किं गुरुत्वं, तत्राह - घटगुरुत्वमिति ।
[वा. टी.] आद्येति । रूपनिवारणाय पतनेति । वेगनिवारणाय आद्येति । उत्पन्ननष्टगुरुत्वेऽतिव्याप्तिनिवारणाय सजातीयमिति । घटनिवृत्तये अत्यन्तेति । संयोगनिवृत्तये एकवृतीति द्रष्टव्यम् । न च लघुत्वाभावस्यैव गुरुत्वादसम्भवादलक्षणमिति वाच्यम् । तथात्वे कारणापेक्षया कार्ये सति शेषस्तदुपालम्भो न स्यादतिशयस्य भावधर्मत्वादतोऽतिरिक्तमेव गुरुत्वमित्याशयवांस्तत्र प्रमाणमाह-तत्रेति । स्पष्टम् । द्रुतं द्रवशीलमुदकम् । सर्पिर्घृतम् । अन्यथा तादृशपदवैयर्थ्यादिति । दिक्संयोगेन सिद्धसाधन परिहाराय यावद्द्रव्येति । सुवर्णादौ व्यभिचारपरिहाराय चतुर्दशेति । गुरुत्वानङ्गीकारे चतुर्दशगुणवत्वस्य हेतोरसिद्धिमाशङ्कय हेत्वन्तरमाह - बहुविशेषगुणवत्त्वाद्वेति । आकाशवारणार्थं बहुपदम् । स्थितिस्थापकान्यत्वञ्च द्रष्टव्यम् । दृष्टान्ते एकपृथक्त्वादिनासिद्धि ( परिहाराय ? ) यावद्द्रव्यभावित्वं साधयति - घटेति । द्वित्वनिवारणाय अबुद्धीति । संयोगनिवारणाय अक्रियेति । तथापि संयोगजसंयोगविभागजविभागनिवारणाय तदन्यत्वमुपादेयम् । अतएवेति । अक्रियाजन्यत्वादेव । तद्दृष्टान्तेन घटरूपदृष्टान्तेनेत्यर्थः । गुरुत्वस्पर्शनगम्यत्वं निराकरोति - घटगुरुत्वमिति । न चाश्रयाप्रत्यक्षत्वमुपाधिः, धर्मादौ साध्याव्याप्तेः । अतिप्रसङ्गस्तु प्रत्यक्षादिबाधेन परिहरणीय इति ।
*
لف
(द्रवत्वलक्षणं तद्विभागश्च )
आद्यस्यन्दनासमवायिकारणात्यन्तसजातीयं द्रवत्वम् । तद्वेधा - नित्यानित्यभेदेन । सलिलपरमाणुषु नित्यम् । तत्रं प्रमाणम् - सलिलक्ष्यणुकं यावद्द्रव्यभाविद्रवत्ववत्समवायिकार्यं, कार्यत्वे सति सलिलत्वात्, सम्प्रतिपन्नसलिलवत्। पार्थिव तैजसपरमाणुषु द्रवत्वमनित्यम्, असलिलद्रवत्वात्,
५ अत्यन्त
१ स्थूले इति झ. २ द्रवीकृतेति ट. ३ जत्वे सतीति ज, ट. ४ भङ्गायेति ज. नास्ति घ पुस्तके. ६ तच्चेति मु. ७ भेदादिति मु. ८. पूर्वत्रेति क. ९ समवायिकारणकमिति ग, कारणमिति ख, कारणकार्यमिति मु. १० सलिलातिरिक्तद्रवत्वादिति ग.

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120