Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[ गुण
ततोऽननुभूयमाने तस्मिन् विपक्षोपलम्भः, ततो व्यावृत्तिरिति चेत्-न; प्रमेयत्वादीनां गर्मकत्वप्रसङ्गादनैकान्तिको च्छेदप्रसङ्गात्, अनुमितानुमानोच्छेदप्रसङ्गाच्च । ततो व्यतिरेकासिद्धिः । विपक्षे हेतुविशेषणे च दूषणमिदमूह्यम् । तस्मात्पूर्वो हेतुरेव । शब्दस्य द्रव्यत्वसाधकं प्रमाणमप्रमीणम् । निरवयवेन्द्रियग्राह्यत्वं साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वञ्च व्यर्थविशेषणं मन्तव्यम् ।
[ब. टी.] शब्द इति । वर्णात्मकश्शब्द इत्यर्थः । तेन न ध्वनिमादाय बाधः । वर्णपदवाच्यं रूपमादाय बाधं वारयितुं शब्दपदम् । पृथिवीपरमाणुरूपादौ व्यभिचारवा - रणाय अपाकजेति । नित्यभूत निष्ठद्वित्वादौ व्यभिचारवारणाय विशेषेति । घटादिरूपादौ व्यभिचारवारणाय नित्येति । सुखादौ व्यभिचारवारणाय भूतेति । नित्यस्य भूतस्य गुणः, न तु नित्यो गुणः, तथा सति साध्यावैशिष्ट्यापातात् । वचनीयत्वेति । भवदनुमानं यद्यधिकवलं तर्ह्यबाधकमेव । यदि न्यूनबलं तदा बाध्यमेव । समबलता तु वक्तुमशक्या । अस्मदनुमानेऽनुकूलतर्कस्योपलम्भः । शब्दो नष्टः कोलाहल इत्यादिप्रेतीतिर्न स्यादिति प्रसङ्गलक्षणस्य विद्यमानत्वेनाधिकबलत्वात् । भवदनुमानस्यानुकूलतर्काभावात् । प्रतिकूलतर्कत्वे हीनबलत्वात् प्रतिपक्षत्वाभिमतदूषणस्य वचनानर्हत्वादित्यर्थः । ननु हीनबलेन सत्प्रतिपक्षतात्वमित्यत आह अपसिद्धान्तादिति । यद्वा सत्प्रतिपक्षमनङ्गीकुर्वाणं प्रत्याह अस्येति । ननु मद्दर्शने यद्यपि सत्प्रतिपक्षो दोषत्वेन न प्रतिपादितस्तथापि, अधुना मयैवोद्भाव्यत इत्यत आह अपसिद्धान्तादिति । यद्वा त्वया शब्दस्य द्रव्यत्वमङ्गीक्रियते न तु गुणत्वमित्यैन्यतरा सिद्धेन कथं सत्प्रतिपक्षानुमानमित्यत आह अस्येति । ननु मयैवेदानीं गुणत्वं स्वीकार्य शब्दस्येति चेत्-न; अपसिद्धान्तादिति । यद्वा न तु शब्दस्य धारया नित्यधारया नित्यत्वं त्वया यद्यपि मन्यते, तथापि न ध्वंसाप्रतियोगित्वलक्षणं नित्यत्वमित्याह अस्येति । ननु मया मन्यत एव ध्वंसप्रतियोगित्वलक्षणं नित्यत्वमिति चेत्-न; अपसिद्धान्तादिति । नन्वहं ध्वंसाप्रतियोगित्ववादी शब्दस्य गुणत्ववादी च, सत्प्रतिपक्षस्य दूषणत्ववादी च । ममापि हेतौ यदि शब्दो नित्यो न स्यात्तर्हि स एवायं गकार इति प्रत्यभिज्ञायमानो न स्यादित्यनुकूलतर्कोऽस्तीत्यत आह किश्चेति । अन्वयव्यतिरेकी भवतोक्तस्तत्र को वायं व्यतिरेक इत्यर्थः । अन्यो वेति । अधिकरणतज्ज्ञानवैधर्म्य तत्कालसम्बन्धपृथक्त्वान्यतम इत्यर्थः । अपसिद्धान्तेति । भवतो मतेऽतिरिक्तस्याभावस्याभावादिति भावः । यत्तु पार्थिवपरमाणुनिष्ठानादिश्यामिकायां पाकजन्यायां पाकनिवर्यायां साध्याभावसत्वेऽपि हेत्वभावाभावाद्व्यतिरेकस्योपसंहर्तुमशक्यत्वात्, व्याप्तिग्रहार्थश्च तत्र हेत्वभा
૮૪
१ मेयेति क, ग, घ २ जनकत्वेति मु. ३ अनैकान्तिकत्वेति मुः ४ प्रसङ्गान्नेति मु. ५ चेति नास्ति क. ६ अप्रमाणमिति नास्ति ख ७ सम्बन्धत्वमिति क. ८ तदेति च ९ आदीति नास्ति च. १० अनिष्टप्रसङ्गेति च . ११ इतीति नास्ति च पुस्तके. १२ विषयो नेति च.

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120