Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता वाङ्गीकारेऽपसिद्धान्तादित्यर्थ इति, तन्नः पृथिवीपरमाणुनिष्ठानादिश्यामिकायां पाकाजन्यायां प्रमाणाभावात् , तस्या अनादिभावत्वे नाशानुपपत्तेश्च । न च तत्र समानाधिकरणं रूपान्तरमसमवायिकारणमिति वाच्यम् । रूपस्य स्वसमानाधिकरणरूपाजनकत्वनियमात् । तस्माद्यत्किञ्चिदेतत् । विविच्येति । स च विविच्य वक्तुमशक्य इत्यर्थः । प्रतियोगिनि बुद्धिस्थेऽधिकरणज्ञानमभाव इति मतमादाय शङ्कते दृश्ये इति । दृश्यप्रमाणयोग्यो यः प्रतियोगिरूपो हेतुः तस्मिन् स्मर्यमाणे यद्विपक्षज्ञानं तदेवं विपक्षे, हेतोरभाव इत्यर्थः। संसोभावस्तु योग्यप्रतियोगिक एव योग्य इति कृत्वा दृश्य इत्युक्तम् । यद्यप्यपाकजनित्यभूतविशेषगुणत्वमतीन्द्रियं, तथापि प्रकृतप्रतियोगिनः प्रामाणिकत्वद्योतनाय दृश्य इत्युक्तम् । अप्रमितप्रतियोगिकस्याभावात् । यद्वा स्मरणं प्रति पूर्वज्ञानं कारणं तद्व्यतिरेकेण कथं हेतोः स्मर्यमाणत्वमित्यत उक्तवान् दृश्य इति । पूर्वज्ञात इत्यर्थः । हेतोरज्ञानदशायां विपक्षोपलम्भस्य हेत्वभावत्वं वारयितुं स्मर्यमाण इति । केवलस्य स्मयेमाणस्य हेतोर्हेत्वभावत्वं वारयितुं विपक्षेति । केवलहेतौ स्मर्यमाणे ज्ञायमाने च विपक्षे हेत्वभावत्वं वारयितुं उपलम्भ इति । ननु विपक्षस्य हेत्वभावत्वे को दोष इति चेत्-न; घटे हेत्वभाव इत्याधाराधेयभावप्रतीत्यभावप्रसङ्गः । न चौपचारिक आधाराधेयभाव इति वाच्यम् । मुख्यत्वे सम्भवति तैदयोगात् । हेतौ स्मर्यमाणत्वविशेषणप्रयोजनन्तु प्रतियोगिविशिष्टाभावव्यवहारः, नोचेदभावमानं व्यवहियेत । न हि व्यवहर्तव्यज्ञाने जाते व्यवजिहीर्षायाश्च जातायामधिकापेक्षेति भावः । दूषयति अननुभूयमान इति । पश्यत इति । हेतुमनुभवतः प्रमातुरथवा हेतुमनुभवतः प्रमातृन् प्रति सद्धेतुर्न स्यात् । अयं निगर्वः । स्मर्यमाण इति । विशेषणमहिम्ना हेतोरनुभूयमानत्वदशायां विपक्षेऽभावाभावात् व्यभिचारप्रसङ्ग इति । विपक्षं पश्यत इति पाठे तस्मिन् हेतावित्यर्थः। तत इति । पूर्वदूषणपरिहारार्थं पयुदासलक्षणया अनुभूयमानसदृशे ज्ञायमान इति यावदित्यर्थः। एवं हेतोरनुभवदशायामपि हेतुत्वाभावः प्राप्तः । प्रमेयत्वादीनामिति । अनित्यत्वादिसाधकप्रमेयत्वादिहेतूनां व्यभिचारिणामपि ज्ञानदशायां विपक्षेऽभावप्रसङ्गेन सद्धेतुत्वप्रसङ्गायभिचारोच्छेदप्रसङ्गादित्यर्थः । ननु भवतु व्यभिचारोच्छेदप्रसङ्ग इत्यत आह-अनुमितेति । उपधिनानुमितेन व्यभिचारेणासाधकतानुमानोच्छेदप्रसङ्गादित्यर्थः । केवलान्वयित्वभङ्गप्रसङ्गोऽपि दोषो बोध्यः। ननु केवलान्वयित्वं प्रतियोग्यधिकरणभिन्नाधिकरणात्यन्ताभावाप्रतियोगित्वं, तच्चाक्षतमेव । न च व्यभिचारोच्छेदोऽपि, स्वस्याविद्यमानत्वेऽपि साध्यात्यन्ताभाववद्गामित्वस्य सत्वादिति चेत्-मैवम् भवतः प्रसङ्गाभावयोरेकावच्छेदेनैकत्र वृत्तौ विरोधस्याप्युच्छेदापंत्तिः, गोत्वाश्वत्वविरोधस्याप्युच्छेदापत्तेः । गोत्वाश्वत्वविरोधस्य गोत्वाश्वत्वसमानाधिकरणगो.
१ रूपान्तरसमवायीति च. २ तत्र विपक्ष इति च. ३ सति तदिति च. ४ व्यवहियते इति च. ५ अपेक्षाभाव इति छ. ६ प्रत्ययमिति च. ७ एवमित्यारभ्य प्रसङ्गादित्यर्थ इत्यन्तो भागो नास्ति छ. पुस्तके. ८ एकवृत्ताविति च. ९ पत्तेरिति च.

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120