Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 96
________________ टीकाप्रयोपेता निरूपणम् ] ८३ [ब. टी.] श्रोत्रेति । चक्षुर्मात्रग्राह्यजातिमति रूपेऽतिव्याप्तिवारणाय श्रोत्रेति । श्रोत्रग्राह्यगुणत्वादिमति रूपादावतिव्याप्तिवारणाय एकेति । श्रोत्रग्राह्यशब्दवति गगनेऽतिव्याप्तिवारणाय जातिपदम् । श्रोत्रग्राह्ये शब्देऽव्याप्तिवारणाय जातिमानिति । स इति । जलपरमाणुरूपे व्यभिचारवारणाय महेति । ईश्वरज्ञाने व्यभिचारवारणाय भूतेति । नित्यपरिमाणे व्यभिचारवारणाय विशेषेति । शब्द इति । कर्मणि व्यभिचारवारणाय सत्यन्तम् । सामान्यादौ व्यभिचारवारणाय सामान्याश्रयत्वम् । द्रव्ये व्यभिचारनिरासाय एकेति । समवायसम्बन्धेन जातिमानाश्रयत्वमिति विशेष्यार्थः । तेन सम्बन्धान्तरेणाभिधेयत्वादिसत्वेऽपि न क्षतिः । नासिद्ध इति । महाभूतविशेषगुणत्वादिति हेतुर्नासिद्ध इत्यर्थः । शब्दस्य विशेषगुणत्वमनुमानान्तरंसिद्धमेव । [अ. टी.] द्रव्यादिव्यवच्छेदार्थं श्रोत्रग्राह्यजातिमानित्युक्तम् । श्रोत्रग्राह्यसत्तायोगी द्रव्यादिरपि, अत एकपदम् । विशेषगुणत्वादित्युक्त ईश्वरप्रयत्नादौ व्यभिचारस्यादतो महाभूतपदम् । महाभूतशब्दोऽत्यन्तोद्भूतत्वमैन्द्रियकत्वं द्योतयतीति न जलपरमाण्वादिविशेषगुणेषु व्यभिचार इति द्रष्टव्यम् । ननु शब्दस्य गुणत्वमेवासिद्धम्, दूरत एव विशेषगुणत्वम् । तत्राह - शब्दो गुण इति । सामान्यादौ व्यभिचारवारणाय सामान्याश्रयत्वादित्युक्तम् । तर्हि द्रव्ये व्यभिचारस्स्यादत उक्तम् एकेति । तथापि कर्मणि व्यभिचारस्स्यादतः कर्मान्यत्वपम् । [वा. टी . ] श्रोत्रेति । रूपनिवृत्तये श्रोत्रग्राह्येति । श्रोत्रग्राह्यसंत्ताजातिमति घटेऽतिव्याप्तिपरिहाराय एकेति । शब्दत्वनिवृत्तये जातीति । सोऽनित्य इति । गगनपरिमाणनिवृत्तये विशेष इति । आप्याणुरूपनिवृत्तये महाभूतेति । महाभूतं महत्त्वाधिकारं भूतमित्यर्थः । ननु गुणत्वमेवासिद्धं दूरे विशेषगुणत्वमत आह- शब्दो गुण इति । स्पष्टम् । विशेषगुणत्वञ्च नियमेनाश्रयोपलम्भमन्तरेणोपलभ्यमानत्वाद्द्रष्टव्यम् । * ( शब्दस्य नित्यत्वशङ्का तत्परिहारश्च ) शब्दो नित्यः, अपाकजनित्य भूतविशेषगुणत्वात्, सलिलपरमाणुरूपवदित्यन्वयव्यतिरेकिणा सत्प्रतिपक्ष इति चेत्-नः अस्य दूषणस्य वँचनीयत्वाभावादपसिद्धान्तात् । किञ्च कोऽयं व्यतिरेकोऽस्य हेतोः । किं विपक्षेऽभावोऽन्यो वा ? नाद्यः, अपसिद्धान्तप्रसङ्गात् । अन्यश्चेद्विविच्य वाच्यः। दृश्ये प्रतियोगिनि हेतौ स्मर्यमाणे विपक्षोपलम्भः, ततो व्यावृत्तिरिति चेत्-न; अनुभूयमाने तस्मिन् विपक्षे पश्यतोऽयं हेतुर्न स्यात् । १ अनुमानान्तरादिति च. २ योगिद्रव्यापीति ज, ट. ३ शब्दोत्पन्नो भूतत्वमिति झ. ४ वारणार्थमिति ज, ट. ५ इत्यत इति ज, ट. ६ अन्यत्वे सतीति विशेषणमिति ट. ७ वचनत्वेति मु. ८ अपसिद्धान्त इति क. ९ किचेति नास्तिक पुस्तके. १० हेतोरिति घ.

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120