Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 95
________________ ८२ प्रमाणमञ्जरी [ गुण [ब. टी.] अतीन्द्रिय इति । गुरुत्वेऽतिव्याप्तिवारणाय सुखहेतुरिति । आत्ममनस्संयोगे ऽतिव्याप्तिवारणाय पुरुषैकवृत्तिरिति । अतएव विषये नातिव्याप्तिः । विषयसाक्षात्कारेऽतिव्याप्तिवारणाय अतीन्द्रिय इति । सुखासाधारणकारणत्वं धर्मत्वं वा धर्मस्य लक्षणान्तरमूह्यम् । दुःखहेतुरिति । इदं विशेषणं भावनादावतिव्याप्तिनिरासाय । द्वेषसाक्षात्कारेऽ तिव्याप्तिनिरासार्थ अतीन्द्रिय इति । अतीन्द्रियविषये ज्ञार्यमानतया दुःखहेतावतिव्याप्तिनिरासाय पुरुषवृत्तित्वंम् । आत्ममनस्संयोगेऽतिव्याप्तिनिरासाय एकेति । दुःखासाधारणकारणत्वं वाधर्मत्वमिति लक्षणान्तरमूह्यम् । विमतमिति । स्पर्शवद्वेगवद्द्रव्यसंयोगाद्यजन्यञ्चलनमित्यर्थः । अत एव न पक्षे द्रव्यपदवैयर्थ्यम् । न वा मूर्त पदवैयर्थ्यम् । प्रयत्नासाधारणकारणकत्वरहितचलनस्यैव पक्षत्वात् । ईश्वरगुणकारित्वेनार्थान्तरवारणाय पुरुषपदं जीवपरम् । प्रयत्नकारितत्वेन कलेवरचलनस्य दृष्टान्तता । [ अ. टी.] अतीन्द्रियो धर्म इत्युक्ते गुरुत्वादौ व्यभिचारस्स्यात् अतः पुरुषपदम् । आत्ममनस्संयोगेऽतिव्याप्तिनिरासार्थम् एकपदम् । आत्मनिष्ठसंस्कारे व्यभिचारवारणाय सुखहेतुरित्युक्तम् । सुखहेतुकदलीफलादिव्यवच्छेदार्थं पुरुषवृत्तिपदम् । तथापीष्टवस्तुसाक्षात्कारे व्यभिचास्स्यादत उक्तम् अतीन्द्रिय इति । धर्मेऽतिव्याप्तिनिरासाय दुःखहेतुपदम् । अनिष्टवस्तुतत्साक्षात्कारयोर्व्यावर्तनाय पुरुषवृत्त्यतीन्द्रियपदे । मूर्तद्रव्यं वाद्यादि । तस्यानुकूल्यप्रातकूल्याभ्यां चलनम् | ईशगुणकारितत्वेनं सिद्धसाधनताव्युदासाय पुरुषपदम् । शरीरचलनं पुरुषगुणप्रयत्नकारितम् । [वा. टी.] अतीन्द्रिय इति । आत्ममनस्संयोगनिवारणाय पुरुषैकवृत्तिरिति । प्रयत्ननिवारणाय अतीन्द्रिय इति । भावनानिवारणाय सुखहेतुरिति । धर्मनिवारणाय दुःखेति । विमतमिति । ईशगुणकारितत्वेन सिद्धसाधननिवृत्तये पुरुषेति । पुरुषश्चात्र क्षेत्रज्ञः । दृष्टान्ते प्रयत्नेन सिद्धिः । पक्षेऽनुपपत्त्यादृष्टसिद्धिः । ( शब्दलक्षणम्, तस्यानित्यत्वं गुणत्वञ्च ) श्रोत्रैकग्राह्यजातिमान् शब्दः । सोऽनित्यः, महाभूतविशेषगुणत्वात्, घटरूपवदित्य नित्यत्वसिद्धिस्तस्यै । शब्दो गुणः कर्मान्यत्वे सति सामान्यैकाश्रयत्वात् रूपवदिति नासिद्धो हेतुः । १ वारणायेति च. २ जायमानेति च. ३ उक्तमिति च. पदत्रयं नास्ति छ पुस्तके. ६ पदमिति ट. ७ मूर्तत्वं वाद्यादीति ट. १० पटेति मु. ११ तस्येति नास्ति क पुस्तके. ४ कारणत्वमधर्मत्वचेति छ. ५ इतः ८ स्खलनमिति झ. ९ वे चेति ८.

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120