Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
[ गुण
एकद्रव्यपदम् । क्रियासमवायिकारणकैकद्रव्यमात्रनिष्ठेन वेगेन सत्तागुणत्वाभ्यां सजातीयरूपादौ व्यभिचारवारणीय अत्यन्तपदम् । गुरुत्वान्यत्वे सतीति ज्ञेयम् । दीपत्वे सत्येकद्रव्यसमानाधिकरणमित्युक्ते रूपादिसमानाधिकरणत्वेन सिद्धसाधनता स्यादतः क्रियासमवायिकारणपदम् । संयोगादिना समानाधिकरणत्वेन सिद्धसाधनताव्युदासार्थमेकद्रव्यपदम् । जातित्वमात्मत्वे व्यभिचरतीति स्पर्शवत्पदम् । एवं प्रमाणबलादेवंविधगुणसामानाधिकरण्ये दीपत्वस्य सिद्धे दीपोऽगुरुः पतनाधारत्वात्सम्मतवदिति गुरुत्व सामानाधिकरण्यप्रतिषेधे परिशेषाद्वेगसिद्धिः । सत्ताया गुरुत्वासमवायिकारणकपतनक्रियां प्रत्यसमवायिकारणगुरुत्वसमानाधिकरणत्वेनोक्तसाध्यवत्तां । वेगो वेगवद्भिः पूर्वपूर्वजलावयविभिरारभ्यमाणेषु कारणवेगपूर्वको ज्ञातव्यः । सत्ताया वेगजन्यक्रियाविशेषवृत्तित्वेन साध्यवत्तां । रूपादौ व्यभिचारवारणार्थं वेगजातित्वादित्युक्तम् ।
1
८०
प्रमाणमञ्जरी
[वा. टी.] गुणत्वेति । घटनिवृत्तये अवान्तरेति । रूपनिवृत्तये गुणत्वेति । संयोगनिवृये एकद्रव्येति । परत्वनिवृत्तये क्रियेति । क्रियया असमवायिकारणमिति विग्रहः । अव्याप्तिनिवारणाय सजातीयेति । घटनिवृत्तये अत्यन्तेति । वेगत्वेनेत्यर्थः । आत्मनिवृत्तये स्पर्शवदिति । पतनक्रिया समवायैकद्रव्यगुरुत्वसामानाधिकरण्येन दृष्टान्तसिद्धिः । घटनिवृत्तये वेगेति । वेगासमवायिकारणकर्मवृत्तित्वेन दृष्टान्तलाभः |
*
( स्थितिस्थापकः भावना च )
यावद्द्रव्य भावी संस्कारः स्थितिस्थापकः । सुवर्णं यावद्द्रव्यभावि, अतीन्द्रियवद्धनावयत्वात्, सूचीवदिति तत्सिद्धिः ।
संस्कारः पुरुषगुणो भावना | संस्कारत्वं पुरुषगुणवृत्ति, "स्थितिस्थापकवेगजातित्वात् सत्तावदिति भावनासिद्धिः ।
[ब. टी.] यावदिति । वेगभावनयोरतिव्याप्तिवारणाय व्यन्तम् । रूपादावतिव्याप्तिभङ्गाय संस्कारत्वमुक्तम् । सुवर्णमिति । आकाशद्वित्वतत्संयोगादिनार्थान्तरवा - रणाय वन्तम् । रूपादिनार्थान्तरवारणाय वदन्तम् । द्रव्यत्वमात्रमत्र हेतुः । तेन न व्यर्थताँ ।
वेगादावतिव्याप्तिवारणाय पुरुषेति । सुखादावतिव्याप्तिनिरासाय संस्कार इति । संस्कारत्वमिति । वेगादिवृत्तित्वेनार्थान्तरवारणाय पुरुषगुणेति । घटत्वे
१ वारणार्थमिति ढ. २ सतीति नास्ति झ, ट. ३ दीपत्वमेकद्रव्येति ज, ट. ४ एवमित्यारभ्य वेगसिद्धिरित्यन्तं नास्ति ट पुस्तके ५ सम्प्रतिपन्नवदित्यर्थ इति ज, ट पुस्तकयोष्टिप्पणी ६ पदमिदं नास्ति ज, ट. पुस्तकयोः ७, ९ साध्यवत्वमिति दृष्टान्तसिद्धिरिति ट. ८ पूर्वपूर्वतरेति ट. १० रूपत्वादाविति ट. ११ भाविसंस्कार इति मु. १२ स्थितेति क, ख, ग १३ तादिति नास्ति ग, घ पुस्तकयोः १४ स्थितेति क, ख, ग. १५ वारणायेति च. १६ इतः पदत्रयं नास्ति च पुस्तके. १७ सूच्या गुरुत्वेन साध्यवत्ता संस्कार इत्यधिकं च पुस्तके.

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120