Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[गुण म्भवात् । नन्वेनं व्यतिरेकिखण्डनेऽतिप्रसङ्ग इत्यत आह विपक्ष इति । मुख्यं दूषणं शब्दनित्यत्ववादिनो गुरुमते च न व्यतिरेकलाभ इति पूर्वमेवोक्तम् । इदन्तु विपक्षे हेतुविशेषणे विपक्षोपलम्भस्ततो व्यावृत्तिरित्येवं सति दूषणमूह्यम् । बुद्धिविस्फारणाय च प्रसिद्धव्यतिरेकापलापासम्भवादिति भावः । यस्मात्प्रतिपक्षहेतुर्न सम्भवति स्वयूथ्यानुसारेण, न च शब्दनित्यत्वमतानुसारेण । अयं प्रयोगो युक्तः, गुरुमते व्यतिरेकानिरूपणात् । भाट्टैश्शब्दस्य गुणत्वानङ्गीकारेणान्यतरासिद्धत्वात् ,
वर्णात्मकाचैं ये शब्दाः नित्यास्सर्वगताश्च ते । .
स्वयं द्रव्यतया ते हि न गुणाः कस्यचिन्मताः ॥ इत्युक्तत्वाच्च । अत उपसंहरति तस्मादिति । हेतुरेव सद्धेतुरेवेत्यर्थः । शब्दस्य गुणत्वे प्रमाणस्य दर्शितत्वात्तद्विरुद्धं द्रव्यत्वसाधनं साधनाभास इत्याह शब्दस्येति । नित्यः शब्दो निरवयवेन्द्रियग्राह्यत्वादात्मवदिति नित्यत्वप्रमाणं सुखादौ व्यभिचरति । शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वाद्धटवदिति द्रव्यत्वसाधनम् । एतच गुणत्वसाधनविरुद्धम् । एवं शब्दस्य नित्यत्वद्रव्यत्वसाधकप्रयोगद्वये दूषणम् । ग्रन्थकारस्तु शब्दो द्रव्यं निरवयवेन्द्रियग्राह्यत्वे सति साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वादित्येकं हेतुं कृत्वा निरवयवेन्द्रियग्राह्यविशेषणस्य वैयर्थ्यमाह-निरवयव इति । लिङ्गसम्बन्धेन प्रतीयमानपरमाणुरूपादौ व्यभिचारवारणार्थमिन्द्रियपदम् । घटरूपादौ व्यभिचारवारणार्थ साक्षात्पदम् । एवमुक्ते व्यभिचाराभावाद्यर्थं विशेषणम् । द्रव्यत्वे प्रयोगद्वये च निरवयवेन्द्रियग्राह्यत्वं रूपादौ व्यभिचारावारकत्वाब्यर्थं विशेषणम् । गुणगुणिनोर्भेदाभेदवादे रूपादेईव्यत्वसम्भवात्साक्षादिति विशेषणम् । विपक्षाव्यावर्तकत्वाद्यर्थ कथञ्चिद्रष्टव्यम् ।
[वा. टी.] शब्द इति। संयोगनिवारणाय विशेषेति । सुखनिवृत्तये भूतेति । घटनिवारणाय नित्येति । पार्थिवपरमाणुरूपनिवृत्तये अपाकजेति । दूषयति नास्येति । हेतोर्विशेषणासिद्धत्वात् । दृश्यते हि वाताग्निसंयोगेनापि शब्दोत्पत्तिरिति । किञ्च कोऽयमित्याशङ्कते-- किं नैयायिकः कश्चित् ? गुरुपक्षी वा ? नाद्य इत्याह अपसिद्धान्तेति । द्वितीयश्चेत्तत्राह कोऽयमिति । अपसिद्धान्तेति । खरूपातिरिक्ताभावस्यानङ्गीकारादिति भावः। द्वितीय आहअन्यश्चेदिति...... । दृश्य इति । प्रमाणयोग्ये हेतौ प्रतियोगिनि स्मर्यमाणे यः प्रमाणयोग्य विपक्षोपलम्भः स तस्य हेतोः, ततो विपक्षे व्यतिरेक इति यावत् । तत्र किं हेतुसहितस्य विपक्षस्योपलम्भः, तद्रहितस्य वा ? नाद्य इत्याह अनुभूयेति । हेतुमिति शेषः। प्रतीयमाने विपक्षे तत्र हेतुं पश्यतोऽनुभववतोऽयम् अन्वयव्यतिरेकी हेतुर्न स्यादिति योजना । द्वितीयमनुवदति अननु. भूयमान इति । तत्रापि वक्तव्यम्-किं विपक्षे हेतौ सत्येव तदननुभवः ? असति वा ! नाद्य इत्याह मेयत्वादीनामपीति । अस्ति हि मेयत्वादीनामपि विपक्षेऽननुभवः, अनुभवकारणाभावाद्वा,
१ मुख्यं हीति ट. २ शब्दानित्यत्वेति ज, ट. ३ विस्मारणायेति ट. ४ वर्णात्मनश्चेति ज,.. ५ नित्यत्वे इति झ. ६ग्राह्यत्वस्यति ट. ७,८व्युदासार्थमिति ज, द. ९नित्यत्वप्रयोगेति उ. १. भेदादेवेति ट.

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120