Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
८६
प्रमाणमञ्जरी
[गुणत्वाश्वत्वात्यन्ताभावनिष्ठप्रतियोगिनिरूपितविरोधोपजीवकत्वादिति दिक् । उपसंहरति तत इति । खदर्शनमाश्रित्य भवता व्यभिचारादिदोषग्रासेन व्यतिरेको निरूपयितुं न शक्यत इत्यर्थः । ननु प्रतियोगिनि बुद्धिस्थे केवलाधिकरणज्ञानमभावः, नच प्रमेयत्वाधिकरणं केवलं भवति । तथाच न व्यभिचाराचुच्छेद इत्यत आह विपक्ष इति । कैवल्यं हि हेतुमदधिकरणभिन्नाधिकरणत्वं विपक्षस्य वाच्यम् । एवञ्च भेदनिरूपिततया हेतुरूपे विशेषणे देये इदमेव नित्यत्वसाधकभवदनुमानस्य प्रतिकूलतर्कानुकूलतर्काभावाभ्यां न्यूनबलत्वलक्षणं दूषणं बोध्यमित्यर्थः । स्वहेतोः सद्धेतुत्वमुपसंहरति तस्मादिति । दूषणस्य परिहृतत्वात् । पूर्व एव शब्दानित्यत्वसाधक एव सद्धेतुरित्यर्थः । अन्ये तु-तत इत्युपलम्भविशिष्टाद्विपक्षाब्यावृत्तिः हेतोस्स व्यतिरेकः । नानुभूयमान इति । अनुभूयमाने विपक्षेऽधिकरणे हेतुं पश्यतोऽयमन्वयव्यतिरेकी हेतुर्न स्यात्, व्यतिरेकासम्भवात् । अयं दोषस्तु यथा कदाचित् घटवत्तया प्रमिते भूतले घटाभावः प्रमा, तथा हेतुमत्तया प्रमिते विपक्षे हेत्वभावः अमेति यदि विवक्षितं, तदा बोध्यः । ननु यत्र क्वचित्प्रमितस्य हेतोः प्रमिते विपक्षेऽभावो वाच्य इत्यत आह ततोऽननुभूयमान इति । यतो विपक्षनिष्ठतया हेतोरनुभूयमानत्वे वक्तव्ये उक्तदोषः, अतो विपंक्षानिष्ठतयानुभूयमाने तस्मिन् हेतौ केवलविपक्षोपलम्भस्सर्वकाले । ततो व्यावृत्तितोर्व्यतिरेक इत्यर्थः । यत्र हेतुर्वर्तते तद्वत्तित्वावच्छिन्नो हेतुस्समारोप्य निषिध्यत इत्यभिमतं तत्राह नेति । अनित्यत्वादिसाधकप्रमेयत्वस्य सपक्षवृत्तित्वावच्छिन्नस्य विपक्ष आरोपपूर्वकनिषेधावगमसम्भवेन व्यभिचाराभावप्रसङ्गादित्यर्थः। किञ्च यत्र प्रतिज्ञाद्यन्यतमावयवज्ञानेन हेतोरवगतिः, तत्र वाचनिकविपक्षोपलम्भाभावादुक्तरूपव्यतिरेकासिद्धौ अनुमितानुमानं न स्यादित्याह अनुमितेति । यद्वा व्यतिरेकानिरूपणादेवानुमितानुमानोच्छेदप्रसङ्गो बोध्यः, गुरुमतेऽभावासम्भवात् । नन्वेवमभावखण्डनेऽतिप्रसक्तिरित्यत आह विपक्ष इति । मुख्यो दोषो व्यतिरेकासम्भव एव । इदन्तु दूषणं विपक्षे हेतुविशेषणे सत्यूह्यमिति व्याचक्रुः, तेन्मन्दम् ; उदक्षरत्वात्, सपक्षवृत्तित्वावच्छिन्नेत्यादेरध्याहाराच्च । शब्दस्येति । निरवयवेन्द्रियग्राह्यत्वं यच्छब्दस्य द्रव्यत्वसाधकं प्रमाणम् , यच्च साक्षादिन्द्रियसम्बन्धेन प्रमाणम्, तदप्रमाणम् । तथा हि-निरवयवेन्द्रियग्राह्यत्वं सुखादौ व्यभिचारि, द्वितीयं साधनं ध्वनौ तत्प्रागभावादौ च व्यभिचारि, गुणत्वसाधनेन विरुद्धश्च । यदि निरवयवेन्द्रियग्राह्यत्वे सति साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वं मिलितं हेतुः, तदा व्यर्थविशेषणत्वं बोध्यम् । रूपादौ व्यभिचारवारणाय निरवयवेति । निरवयव आत्मा तजन्यग्रहविषयरूपादौ व्यभिचारवारणाय इन्द्रियेति । न च मनोग्राह्यरूपादौ तदवस्थो व्यभिचारः, लौकिकप्रत्यासत्या निरवयवेन्द्रियग्राह्यत्वस्य विवक्षितत्वात् । द्वितीयहेतौ रूपादौ व्यभिचारवारणाय साक्षादिति । अनुमानेन साक्षात्स
_. वक्तव्यमिति च. २ निरूपकतयेति च. ३ हेतोरनुभूयमानेति छ. ४ विपक्षनिष्ठतयेति छ. ५ तन्नेति च.

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120