Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[गुणअत एवैतदेकत्वादी नातिव्याप्तिः, तस्य परगतैकत्वरूपविशेषापेक्षत्वात् । पृथिवीत्वादावतिव्याप्तिवारणाय गुणपदम् । यत्तु ह्रस्वत्वादेः परगतदीर्घत्वादिविशेषापेक्षया व्यवच्छेदकत्वात्तत्रातिव्याप्तिवारणाय तृतीयान्तेति, तन्न; अन्योन्यत्वादिनैव तयवच्छेदात् । हस्वत्वस्य जलपरमाण्वादिविपक्षगतत्वात् , आकाशापेक्षया परत्वस्य, मूर्तापेक्षया शब्दस्य वान्योन्यव्यवच्छेदकत्वात् परत्वेऽतिव्याप्तिरतः पृथिव्यादीनामित्युक्तम् एतेनैकैकद्रव्यविभाजकोपाध्याक्रान्तव्यवच्छेदकता प्राप्ता । अधिकं वर्तमानप्रकाशे बोध्यम् । [अ. टी.] गुणसजातीयस्लेह इत्युक्ते सत्तादिना गुणसजातीये द्रव्यादौ व्यभिचारस्स्यादत उक्तम् अत्यन्तेति । संख्यादौ व्यभिचारवारणार्थ विशेषपदम् । शब्दबुध्यादौ व्यभिचारनिरासार्थ घनोपलगतेत्युक्तम् । घनो मेघः, तदुपलः करकः । धनोपलगतविशेषगुणात्यन्तसजातीयस्नेह इत्युक्ते रूपादौ व्यभिचारस्स्यादत उक्तम् द्वीन्द्रियग्राह्येति । स्नेहस्य चक्षुःस्पर्शनाभ्यां गृह्यमाणत्वाद्वीन्द्रियग्राह्यत्वम् । द्वीन्द्रियग्राह्यविशेषगुणात्यन्तसजातीयस्नेह इत्युक्ते सांसिद्धिकद्रवत्वे व्यभिचारस्स्यादतो घनोपलगतेत्युक्तम् । शब्दादौ व्यभिचारवारणार्थम् अम्भोविशेषगुणत्वादित्युक्तम् । ननु कोऽसौ विशेषगुण इत्यत आह-परगतेति । पृथिव्यादीनां गुणो विशेषगुण इत्युक्ते संख्यादावतिव्याप्तिः स्यादत उक्तम् अन्योन्यव्यवच्छेदक इति । तर्हि ह्रखत्वादौ व्यभिचारस्स्यादतः परगतविशेषानपेक्षतयेत्युक्तम् । ह्रस्वादेः परगतदीर्घत्वादिविशेषापेक्षया व्यवच्छेदकत्वान्नोक्तदोषः । पृथिव्यादीनामन्योन्यव्यवच्छेदकाः पृथिवीत्वादयोऽपि भवन्तीति तव्यवच्छेदार्थे गुणपदम् ।।
[वा. टी.] घनोपलेति । संयोगनिवारणाय विशेषेति । रूपनिवारणाय द्वीन्द्रियग्राह्येति । सलिलदवत्वनिवृत्तये धनोपलगतेति । घनोपलः करकः । (स्नेहे ?) अव्याप्तिनिरसाय सजातीय इति । घटनिरासाय अत्यन्तेति । परगतेति । संयोगनिरासाय अन्योन्येति । सामान्यनिरासाय गुण इति । हस्खत्वनिरासाय परगतेति ।
( संस्कारलक्षणम् , तद्विभागः तत्र वेगश्च ) गुणत्वावान्तरजात्या वेगसजातीयः संस्कारः। स त्रेधा-वेगादिभेदेन । क्रियासमवायिकारणैकद्रव्यात्यन्तसजातीयो वेगः । वेगत्वं क्रियासमवायिकारणैकद्रव्यसमानाधिकरणं, स्पर्शवजातित्वात् , सत्तावदिति वेगसिद्धिः। स द्विविधः-वेगजः क्रियाजश्चेति । वेगत्वं वेगासमवायिकारणवृत्ति, वेगजातित्वात् , सत्तावदिति वेगजवेगसिद्धिः । वेगत्वं कर्मासमवायिकारणवृत्ति, वेगजातित्वात् सत्तावदिति कर्मजवेगसिद्धिः।
१ विशेषणमिति च. २ पतिरियं नास्ति छ पुस्तके. ३ वेति क. ४ दीपत्वमिति क, ख, ग, घ. ५ द्वेधेति क, ग.

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120