Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 92
________________ निरूपणम् ] aaratai [ब. टी.] गुणत्वेति । गुणत्वेन रूपेण वेगसजातीये रूपादावतिव्याप्तिवारणाय गुणत्वावान्तरेत्युक्तम् । वेगरूपान्यतरत्वादिना रूपादावतिव्याप्तिवारणाय जाये - त्युक्तम् । रूपादावतिव्याप्तिवारणाय वेगेति । भावनास्थितिस्थापकयोरव्याप्तिवारणाय सजातीयेति' । न चात्माश्रयः, संस्कारत्वेन लक्ष्यत्वात्, वेगत्वेन लक्षणप्रवेशात्, येन रूपेण लक्ष्यता तेन रूपेण लक्ष्यस्य लक्षणशरीरे प्रवेशे आत्माश्रयात् । क्रियेति । . सजातीयरूपमपि. .... यत्किश्चिदसमवायिकारणसजातीयं रूपमपि ( 2 ) अतः क्रियेति । क्रियानिमित्तकारण सजातीयेऽदृष्टादावतिव्याप्तिवारणाय असमवायीति । गुणत्वादिना सजातीये रूपादावतिव्याप्तिवारणाय तान्तम् । अजनितकर्मके वेगेऽव्याप्तिवारणाय सजातीयत्वम् । नोदनादावतिव्याप्तिवारणाय एकद्रव्येति । अनेन लक्षणेन वेगत्वं जातिरेव लक्षणत्वेन ( न १ ) सूच्यते । यद्वा गुरुत्वादिभिन्नत्वे सतीति देयम् । यद्वा स्पन्दनपतँनभिन्ना क्रिया विवक्षिता । तेन (न) गुरुत्वादावतिव्याप्तिः । यद्वा तदेकद्रव्यं सौरतेजोनिष्ठत्वेन विवक्षणीयम् । यद्वा क्रिया असमवायिकारणं यस्येति बहुव्रीहिः । सूर्यक्रियाजनितरूपादावतिव्याप्तिवारणाय असमवायीति । संयोगादिनार्थान्तरवारणाय एकद्रव्येति । आत्मत्वे व्यभिचारवारणाय स्पर्शवदिति । वेगरहिते घटे व्यभिचारवारणाय जातित्वादिति । तादृशगुरुत्वसामानाधिकरण्येन सत्तायां साध्यसिद्धिः । वेगज इति । वेगवतः कपालादिनारब्धे घटादौ वेगजवेगो बोध्यः । कर्मासमवायिकारणवृत्तित्वेनार्थान्तरवारणाय वेगेति । उद्देश्यसिद्धये असमवायीति । घटत्वादौ व्यभिचारवारणाय वेगेति । वेगासमवायिकारणत्वरहित वेगवृत्तिता । वेगत्वादौ व्यभिचारवारणाय जातित्वादिति । सत्तायां वेगजन्यकर्मवृत्तित्वेन साध्यसिद्धिः । कर्मेति । बेगजन्य वेगवृत्तित्वेनार्थान्तरवारणाय कर्मेति । उद्देश्य सिद्धये असमवायीति । घटत्वादौ व्यभिचारवारणाय वेगेति । वेगासमवायिकारणकवेगत्वे व्यभिचारवारणाय जातित्वादिति । ननु वेगे वेगासमवायिकारणकत्वावच्छेदकमसमवायिकारणतावच्छेदकञ्च जातिद्वयमस्ति । तथा चानुमानद्वये व्यभिचार इति चेन्न; तत्रोपाध्योरेव कारणकत्वावच्छेदकत्वे जात्योर्मानाभावात् । वेगंजन्यत्व कर्मजन्यत्वावच्छिन्नेति विशेषणमिति वेगत्वाव्याप्यवेगवृत्तिजातित्वस्य हेतुत्वाद्वा । [ अ. टी. ] संत्तादिना वेगसजातीयत्वं द्रव्यादेरप्यस्तीति गुणत्वावान्तरजात्येत्युक्तम् । वेगः स्थितिस्थापको भावना चेति त्रेधा संस्कारः । क्रियां प्रत्यसमवायिकारणमिति विग्रहः । क्रियासमवायिकारणजातीयो वेग इत्युक्ते "संयोगे व्यभिचारः स्यादत १ गुणवेगसजातीयेति च. २ इत्युक्तमिति च. पुस्तके. ४ अपीत्यनन्तरम् अतोऽत्यन्तान्तम् इति च. च. ७ पतनक्रियाभिन्नक्रियेति च. ८ इत आरभ्य १० कारणत्वेति च ११ कारणतावच्छेदकत्व इति च १३ सत्वादिनेति झ. १४ कारणं यस्य स इति उ. ७९ ३ इत आरभ्य तेन रूपेणेत्यन्तो भागो नास्ति च ५ कारणेति नास्ति छ पुस्तके. ६ तत्सजातीय इति पतिद्वयं नास्ति च पुस्तके. ९ घटत्वादीति छ. १२ वेगेत्यारभ्य विशेषणमितीत्यन्तं नास्ति छ पुस्तके. १५ संयोगादाविति ज, द.

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120