Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 90
________________ निरूपणम् ] टीकात्रयोपेता व्यभिचारस्स्यादतः परमाणुग्रहणम् । तैलादिपरमाणुद्रवत्वे व्यभिचारवारणाय तदन्यत्वे सतीति द्रष्टव्यम् । [वा. टी. ] आद्येति । रूपनिवारणार्थं स्यन्दनेति । द्वितीयस्यन्दनजनक प्रथमस्यन्दननिवारणार्थम् आद्येति । उत्पन्ननष्टद्रवत्वेऽव्याप्तिनिवारणाय सजातीयेति । घटनिवारणाय अत्यन्तेति । संयोगनिवारणाय एकवृत्तीति द्रष्टव्यम् । सलिलद्व्यणुकमिति । सिद्धसाधनतापरिहाराय यावद्द्रव्यभावीति । आप्यपरमाणुनिरासाय कार्यत्व इति । सुखादिनिवृत्त्यर्थं सलिलेति । पार्थिवा इति । सामान्यादिना सिद्धसाधनतापरिहाराय गुण इति । संयोगेन सिद्धसाधनतापरिहाराय एकद्रव्येति । संख्यादिना सिद्धसाधनतापरिहाराय अग्निसंयोगजेति । रूपादिनिवृत्तये रूपादिचतुष्टयव्यतिरिक्तेति । आध्ययणुकनिवृत्तये नित्येति । सलिलाणुनि - वृत्तये अनित्यविशेषगुणवत्वे सतीति । आत्मनिवारणाय भूतत्वादिति । शब्दादिना दृष्टान्तलाभः। सलिलाणुनिवृत्तये उदकानधिकरणत्वे सतीति । * ७७ ( स्नेहलक्षणम्, तस्य यावद्द्रव्यभावित्वञ्च ) घनोपलगतद्वीन्द्रियग्राह्यविशेषगुणात्यन्तसजातीयः स्नेहः । स च यावद्द्रव्यभावी, अम्भोविशेषगुणत्वात्, रूपवत् । परगतविशेषानपेक्षया पृथिव्यादीनामन्योन्यव्यवच्छेदको गुणो विशेषगुणः । [ब. टी.] घनेति । घनो मेघः, तदुपलः करकः यद्वा घनः प्रतिबद्धसांसिद्धिकद्रवत्वः । सांसिद्धिकद्रवत्वेऽतिव्याप्तिवारणाय गतान्तम् । रूपादावतिव्याप्तिवारणाय द्वीन्द्रि येति । लिङ्गद्वयादिग्राह्यरूपादिकेऽतिव्याप्तिवारणाय इन्द्रियेति । एवमपि रूपादावतिव्याप्तिवारणायेन्द्रियगतं द्वित्वमुक्तम् । संख्यादावतिव्याप्तिवारणाय विशेषेति । एवं पदार्थविशेषे संख्यादावेवातिव्याप्तिवारणाय गुणेति । अग्राह्ये स्नेहेऽव्याप्तिवारणाय सजातीयत्वमुक्तम् । गुणत्वादिना तत्सजातीये रूपादावतिव्याप्तिवारणाय अत्यन्तेति । गुणत्वसाक्षाद्व्याप्यजात्या साजात्यमुक्तम् । गुणत्वव्याप्यजात्यव्याप्य स्नेहरूपान्यतरत्वादिना कृत्वा, रूपादावतिव्याप्तिवारणाय जात्या साजात्यमुक्तम् । स्नेहत्वं जातिर्लक्ष्यतावच्छेदिका । स चेति । द्वित्वादौ व्यभिचारवारणाय विशेषेति । शब्दादौ व्यभिचावारणाय अम्भ इति । गुणपदकृत्यं पूर्ववत् । ननु स्नेहलक्षणे विशेषगुणेति यदुक्तं, तदसत् ; स्नेहस्यैकमात्रेन्द्रियग्राह्यजातिमत्वाभावात् । अतोऽन्यादृशं विशेषगुणत्वं निर्वक्ि परगतेति । परत्वमपि मूर्तममूर्तादन्यतो भेदयति । अतः अन्योन्येति । परत्वं न पृथिवीं जलाद्भेदयति, परत्वस्य विपक्षे जलादावपि सत्वात् । पाकजरूपसमानाधिकरणपरत्वं भेदयत्येव । अतस्तृतीयान्तम् । यन्मते व्यर्थविशेषणस्यापि व्यवच्छेदकता, तन्मत इदम् । १ पङ्क्तिरियं नास्ति ज, झ पुस्तकयोः २ बहिरिन्द्रियेति मु. ३ समानजातीय इति व. ४ चेति नास्ति क. ५ विवक्षितमिति च ६ असङ्गतमिति च ७ पदमिदं नास्ति छ पुस्तके. ८ व्यवच्छेदकतेति मतमिति छ.

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120