Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 88
________________ निरूपणम् ] टीकात्रयोपेता सम्प्रतिपन्नवदितीत रसिद्धिः । पार्थिवाः परमाणवो रूपादिचतुष्टयातिरिक्ताग्निसंयोग जैकद्रव्यगुणयोगिनः, अनित्यविशेषगुणवत्वे सति नित्यभूतत्वात्, आकाशवदिति परिशेषादग्निसंयोगजत्वं द्रवत्वस्य सिद्धम् । तेजः परमाणुषु द्रवत्वम् अग्निसंयोगजम्, उदकानधिकरणत्वे सति परमाणुद्रवत्वात्, पार्थिवपरमाणुद्रवत्ववदिति । [ब. टी. ] आद्येति । द्वितीयस्यन्दनासमवायिकारणे वेगेऽतिव्याप्तिवारणाय आद्येति । नोदनादावतिव्याप्तिनिरासाय स्यन्दनेति । अदृष्टादावतिव्याप्तिवारणाय असमवायीति । सैत्वे तत्सजातीये घटादावतिव्याप्तिवारणाय अत्यन्तेति । गुणत्वसाक्षाद्व्याप्यजात्या साजात्यं विवक्षितम् । तेन रूपद्रव्यत्वान्यतरत्वेन तत्सजातीये रूपादौ नातिव्याप्तिः । अजनितस्यन्दनके द्रवत्वेऽव्याप्तिवारणाय सजातीयत्वमुक्तम् । सलिलक्ष्यणुकमिति घटादिव्यणुके बाधवारणाय सलिलेति । सलिलपरमाणौ बाधवारणाय द्व्यणुकमिति । उद्देश्यसिद्धये यावद्द्रव्यभावीति । रूपादिनार्थान्तरभङ्गाय द्रवत्वेति । तादृशद्रवत्ववत्वमात्रसाधने नित्यं द्रवत्वं नायात्यतो द्रवत्ववत्समवायिकार्यत्वमुक्तम् । जैलशरीरद्व्यणुकस्य द्रवत्ववत्पार्थिवपरमाणू पष्टम्भकत्वसम्भवेनार्थान्तरवारणाय समवायीति । परमाणौ व्यभिचारवारणाय सत्यन्तम् । घटादौ व्यभिचारवारणाय पञ्चम्यन्तम् । सम्प्रतिपन्नवदिति। स्थलजलवदित्यर्थः । प्रकृते पक्षधर्मताबलाद्रवत्वस्य नित्यत्वसिद्धिः । सम्प्रतिपन्नवदिति । घृतं द्रवत्ववदित्यर्थः । असलिलेति । सलिलपरमाणु द्रव्यत्वे व्यभिचारवारणाय असलिलेति । असलिलनिष्ठत्वादिति वक्तव्ये आकाशाद्येकवे व्यभिचारः, तदर्थं द्रवत्वत्वादित्युक्तम् । जलपरमाणु द्रवत्वे बाधवारणाय पार्थिवा इति । उभयत्र तत्सिद्धये उभयग्रहः । घृर्ततेद्व्यणुकादिद्रवत्वे सिद्धसाधनवारणाय परमाणुष्वित्युक्तम् । परमाणुनिष्ठैकत्वादौ वाधवारणाय तन्निष्टत्वादौ च सिद्धसाधनवारणाय द्रवत्वमुक्तम् । पार्थिवेति । घटादौ बाधवारणाय अणव इति । व्यणुके बाधवारणाय परमेति । जलादिपरमाणौ बाधवारणाय पार्थिवेति । रूपादिनार्थान्तरवारणाय अतिरिक्तान्तम् । परिमाणेनार्थान्तरवारणाय जन्यत्वमुक्तम् । दैशिकपरत्वादिनार्थान्तरवारणाय अग्निसंयोगेति । अदृष्टवदात्मसंयोगेनार्थान्तरवारणाय अग्नीति । उद्देश्यसिद्धये संयोगेति । यद्वा यथोक्तविशेषणविशेष्यभावेन वैयर्थ्यम्, अग्निसंयोगजैविभागेनार्थान्तरवारणाय एकद्रव्येति । अव्यासज्यवृत्तित्वं तदर्थः । रूपध्वंसेनार्थान्तरवारणाय गुणेति । यद्वा संयोगजसंयोगेनार्थान्तरवारणाय एकद्रव्येति । ७५ १ अग्नीति नास्ति घ. २ परमाणुद्रवत्वमिति मु. ३ द्रवत्वान्यपार्थिवेति ख. ४ वारणायेति च. ५ सत्वेनेति छ. ६ द्रव्यान्यतरत्वेनेति च. ७ द्रवत्वमात्रेति च ८ सलिलेति च. ९ घृतेति नास्ति छ पुस्तके. १० सलिलेति नास्ति छ पुस्तके. ११ द्रवत्वेनेति च. १२ तदिति नास्ति च पुस्तके. १३ जलपरमाणाविति च १४ परिमाणादिनेति च. १५ इत्युक्तमिति च. १६ पङ्क्तिरियं नास्ति छ पुस्तके, १७ संयोगजन्येति च.

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120