Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 86
________________ निरूपणम्] टीकात्रयोपेता अन्यथा गुरुत्वोत्कर्षेण पतनोत्कर्षो न स्यादिति भावः। द्रुतमिति । रूपादिनार्थान्तरवारणाय अतीन्द्रियेति। आकाशवृत्तद्वित्वेनार्थान्तरवारणाय यावदिति । न च गगननिरूपितधृतिनिष्ठसंयोगेनार्थान्तरं, तस्यापि यावद्रव्यभावित्वाभावात् , व्याप्यवृत्तित्वविशेषणस्य देयत्वाद्वा । न च स्थितस्थापकेनाथान्तरम् , तद्भिन्नत्वेन विशेषणात् । न च द्रुतपदवैयर्थ्यम् , द्रुतसर्पिष्दैन प्रतीतेरुद्देश्यत्वात् । प्रत्यक्षतेजसि व्यभिचारवारणाय चतुर्दशेति । प्रमेयत्वादिचतुर्दशधर्मवति तत्रैव व्यभिचारवारणाय गुणेति। तेजसि व्यभिचारंवारणाय बहिति। अनेकगुणवति तत्रैव व्यभिचारवारणाय विशेषेति। उक्तसाध्यविशेषणं साधयति घटेति। उद्देश्य सिद्धये घटेति। द्वित्वादौ वाधवारणाय रूपादौ सिद्धसाधनवारणाय च गुरुत्वमिति । उद्देश्यसिद्धये यावदिति । स्वाश्रयसमानकालीनध्वंसप्रतियोगीत्यर्थः । रूपप्रागभावे व्यभिचारवारणाय असमवेतत्वादिति । शब्दे व्यभिचारवारणाय घटेति। घटद्वित्वे व्यभिचारवारणाय अबुद्धिजत्वे इति । असाधारणबुद्धिजत्वनिषेधे सतीत्यर्थः । तेन नासिद्धिः । संयोगादिषु व्यभिचारवारणाय अक्रियाजत्वे सतीति । संयोगादिभिन्नत्वे सतीत्यर्थः। तेन न संयोगजसंयोगादौ व्यभिचारः ने वा वेगे ।अन्ये तु अक्रियाजत्वे सति संयोगजसंयोगादिभिन्नत्वे सतीत्याहुः। परे तु अक्रियाजत्वं क्रियाप्रयोज्यभिन्नत्वं, संयोगजसंयोगादिः क्रियाप्रयोज्य एवेति न तत्र व्यभिचारो न वा वेग इत्याहुः । साधनीयं यावद्रव्यभावित्वमिति शेषः। अत एवेति। घटसमवेतत्वे सति यावद्रव्यभावित्वादित्यर्थः। तदृष्टान्तेन घटरूपदृष्टान्तेन । तर्हि तद्वत् किं तत्प्रत्यक्षम् ? नेत्याह-घटेति । परमाणुगुरुत्वे सिद्धसाधनवारणाय घटेति । घटनिष्ठाकाशसंयोगादौ सिद्धसाधनवारणाय घटरूपादौ च बाधवारणाय गुरुत्वमिति । गुरुत्वादित्यर्थः। [अ. टी.] सजातीयं गुरुत्वमित्युक्ते कालादौ व्यभिचारवारणार्थम् -असमवायिकारत्युक्तम् । तर्हि सत्तया समवायिकारणसजातीये द्रव्येऽतिव्याप्तिस्स्यादत उक्तम् अत्यन्तेति । तथापि संयोगादौ व्यभिचारस्स्यादत उक्तं पतनेति । एवमप्युत्तरपतनासमवायिकारणात्यन्तसजातीये प्रथमपतनोत्थसंस्कारेऽतिव्याप्तिस्स्यादत उक्तम् आद्यपदम् । जातमात्रनष्टगुरुत्वेऽव्याप्तिनिरासार्थ सजातीयपदम् । सम्प्रतिपन्नमुत्तरं पतनम् । प्रयोगान्तरमाह-द्रुतं सपिरिति । अतीन्द्रियवदित्युक्ते कालादिसंयोगवत्वेन सिद्धसाधनता स्यादत उक्तम् यावद्व्यभावीति । यावद्र्व्यभावि युक्तमित्युक्ते रूपादिमत्वेन सिद्धसाधनता अतै उक्तम् अतीन्द्रियवदिति । स्थितस्थापकान्यत्वस्य विवक्षितत्वान्न तेन सिद्धसाधनता । गुणवत्वादित्युक्ते तेजोविकारे स्थूलसुवर्णे व्यभिचारस्स्यादत उक्तम् १, २ निराकृतय इति च. ३ इतः पदवयं नास्ति च पुस्तके. ४ सतीति नास्ति च. ५, ६ पदत्रयं नास्ति च पुस्तके. ७ भावित्वादेवेति च. ८ भङ्गादाविति छ. ९पदमिदं नास्ति ज, ट पुस्तकयो, १. द्रव्यगुरुत्वेति ज. ११ तत इति ज, द. १२ अन्यत्वं द्रष्टव्यमिति ज. प्रमाण०१०

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120