Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता
(प्रयत्नः तद्विभागश्च) गुणत्वावान्तरजात्या बुद्धीच्छान्येश्वरविशेषगुणगततत्सामान्याधारः प्रयत्नः । सोऽस्मदादीनां प्रत्यक्षः। ईशस्य तु पुरुषत्वात्सिद्धः। स नित्यानित्यभेदावधा। नित्यस्सर्वज्ञस्य तद्विशेषगुणत्वाद्वेद्धिवत् । अनित्यो द्वेधा-इच्छाद्वेषान्यतरपूर्वको जीवनपूर्वकश्चेति । पूर्वो मानसप्रत्यक्षसिद्धः, उत्तरोऽनुमानसिद्धः। सुषुप्तप्राणक्रिया अस्मदादिप्रयत्नजा प्राणक्रियात्वात् जाग्रतः प्राणक्रियावदिति । [ब. टी.] गुणत्वावान्तरेति । सामान्यादावतिव्याप्तिवारणाय सामान्येति । घटादावतिव्याप्तिवारणाय गुणगतेति । संख्यादावतिव्याप्तिवारणाय विशेषेति । रूपादावतिव्याप्तिवारणाय ईश्वरेति । बुद्धीच्छयोरतिव्याप्तिवारणाय वुद्धीच्छान्येति। . सत्तामादायातिप्रसङ्गवारणाय अवान्तरेति । गुणत्वमादायातिव्याप्तिवारणाय गुणत्वेति । रूपप्रयत्नान्यतरत्वादिनातिप्रसक्तिनिरासाय सामान्येति । इच्छाद्वेषेति । इच्छापूर्वको द्वेषपूर्वकश्चेत्यर्थः । द्वेषपूर्वकस्तु प्रयत्नो न नव्यमते सिद्धः। जीवनेति । जीव्यतेऽनेनेति जीवनमदृष्टम् । सुषुप्तप्राणक्रियेति । जलादिक्रियायां बाधवारणाय प्राणेति । प्राणे बाधवारणाय क्रियेति । प्राणायामे सिद्धसाधनवारणाय सुषुप्तेति । सुषुप्तशरीरक्रियायां स्पर्शनवद्वेगवल्लोष्ठादिसंयोगजन्यायां बाधवारणाय प्राणेति । ईश्वरप्रयत्नेनार्थान्तरवारणाय अस्मदादीति । अस्मदादिगतत्वेनार्थान्तरवारणाय प्रयनेति । अदृष्टाद्वारकप्रयत्नजन्यत्वं समुदायार्थः । तेन नादृष्टद्वारकप्रयत्नजन्यत्वेनार्थान्तरम् । क्रियात्वं पतनादौ व्यभिचारि, तदर्थ प्राणक्रियात्वं हेतूकृतम् । प्राणत्वं साधनविकलमत उक्तं क्रियात्वम् । प्राणक्रियाविशेषो हेतुरतो न प्राणवाय्वादिसंयोगजन्यप्राणक्रियायां व्यभिचारः । पक्षेपि स एव, तेन नांशतो बाधः। [अ. टी.] सामान्याधारः प्रयत्न इत्युक्ते द्रव्यकर्मणोरतिव्याप्तिः स्यादत उक्तं गुणगतेति । संयोगादौ व्यभिचारवारणाय विशेषपदम् । रूपादावतिव्याप्तिव्युदासार्थम् ईशपदम् । तर्हि ज्ञानेच्छयोर्व्यभिचारस्स्यात्ततो बुद्धीच्छान्येत्युक्तम् । बुद्धीच्छान्येश्वरविशेषगुणगतसत्तागुणत्वलक्षणसामान्याधारे द्रव्यादौ गुणमात्रे चातिव्याप्तिनिरासाथै गुणत्वावान्तरजात्येत्युक्तम् । 'किं तदनुमानमित्यंत आह-सुषुप्तप्राणक्रियेति । ईशप्रयत्नजन्यत्वेन सिद्धसाधनताव्युदासार्थम् । अस्मदादिपदम्। क्रियात्वं मेघगत्यादौ व्यभिचरतीत्यत उक्तं प्राणक्रियात्वादिति ।
१जातीयेति घ. २ तदिति नास्ति ख, ग, घ. ३ प्रत्यक्षसिद्ध इति घ. ४तु इति नास्ति ख, ग, घ. ५ धीवदिति ख, ग, घ, ६ सुप्तेति ख, घ. ७ भङ्गायेति च. ८ अतिव्यापनेति ज, ट. ९ किमिति नास्ति ट पुस्तके. १० इतीति नास्ति ट पुस्तके.

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120