Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 85
________________ प्रमाणमअरी [गुण[वा. टी.] गुणत्वेति । संयोगेऽतिव्याप्तिपरिहाराय विशेषेति । गन्धेऽतिव्याप्तिपरिहाराय ईश्वरेति । ज्ञानेच्छयोरतिव्याप्तिपरिहाराय बुद्धीच्छान्येति । जीवप्रयत्नेऽव्याप्तिनिरासाय तद्गतसामान्येति । घटेऽतिव्याप्तिपरिहाराय गुणत्वेति । रूपनिवारणाय अवान्तरेति । जीवनं प्राणधारणम् । (गुरुत्वलक्षणं तत्र प्रमाणञ्च ) आद्यपतनासमवायिकारणात्यन्तसजातीयं गुरुत्वम् । तंत्र प्रमाणम्-प्रथमं पतनम् , असमवायिकारणपूर्वकम् , क्रियात्वात्, सम्प्रतिपन्नवदिति । परिशेषाद्गुरुत्वसिद्धिः। द्रुतं सर्पिः, यावाव्यभाव्यतीन्द्रियवत्, चतुर्दशगुणवत्वात् बहुविशेषगुणवत्वाच, आत्मवैदिति मानद्वयम् । तत्रान्यस्यासम्भवात् । घगुरुत्वं यावद्व्यभावि, अक्रियाजन्यत्वे सति अबुद्धिजेन्यत्वे सति घटसमवेतत्वात् , घटरूपवत् । सर्वत्र गुरुत्वं यावद्व्यभावि, गुरुत्वात् , घटगुरुत्ववदिति साधनीयम् । अत एव कारणगुणपूर्वकत्वं तदृष्टान्तेन साध यम् । घटगुरुत्वमप्रत्यक्षं, गुरुत्वात्, परमाणुगुरुत्ववत् । [ब. टी.] आयेति । द्वितीयपतनासमवायिकारणे प्रथमपतनजन्यवेगेऽतिव्याप्तिवारणाय आयेति । नोदनजन्याद्यकर्मासमवायिकारणे नोदनेऽतिव्याप्तिवारणाय पतनेति । यत्रापि नोदनादिना फलसंयोगाभावो भवति, तत्रापि पतनस्य (न १) नोदनासमवायिकारणता । नोदनस्य संयोगध्वंसजनकपतनभिन्नकर्मजननेनैवोपक्षीणत्वात् । अतएव संयोगध्वंसेनोपंक्षीणनोदनजन्यकर्मादिना पतनासमवायिकारणपतनात्यन्तसजातीयत्वं गुरुत्वे सम्भवति (?) तदर्थ कारणेति । कालादौ गतमत आह–असमवायीति । सत्तादिना सजातीये घटादावतिव्याप्तिवारणाय अत्यन्तेति । तेन गुणत्वव्याप्यजात्या साजात्यं प्राप्तम् । अत एव पतनासमवायिकारणनिष्ठान्यतरत्वादिमति रूपादौ नातिव्याप्तिः। पतनत्वं गुरुत्वप्रयोज्यो जातिविशेषः, न त्वधस्संयोगफलंक्रियात्वम् । सूर्यकरकर्मणि तदसमवायिकारणे वा पतनलक्षणस्य गुरुत्वलक्षणस्य च नातिप्रसत्यापत्तिः, न वादृष्टवदात्मसंयोगेऽतिव्याप्तिः, तस्य पतननिमित्तत्वेऽपि तदसमवायिकारणत्वाभावात् । अजनितपतनके नष्टगुरुत्वेऽव्याप्तिवारणाय सजातीयत्वमुक्तम् । प्रथममिति।प्रथमशरक्रियादावर्थान्तरवारणाय पतनमिति। द्वितीयादिपतनेऽर्थान्तरवारणाय प्रथममिति। अदृष्टादिनार्थान्तरवारणाय असमवायीति। परिशेषादिति। १ आद्यपतनमिति ख, ग, घ; प्रथमपतनमिति क. २ चेति नास्ति क, ख, घ पुस्तकेषु, वा इति ग. ३ आत्मवदिति नास्ति घ पुस्तके. ४ पटेति घ, ५ जत्वे सतीति घ. ६ कारणपूर्वकमिति ग, घ, कारणगुणपूर्वकमिति क. ७ जन्यमत इति छ.८ उपक्षीणं नोदनजन्य कर्मापि न पतनेति छ. ९ कार. कक्रियात्वेनेति च.१०क्रिययैवेति च.

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120