Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 80
________________ निरूपणम्] टीकात्रयोपेता बाधितविषयत्वं न सम्भवतीति प्रमाणविरोधाद्धत्वन्तरनिवृत्तये विरुद्धेति । व्यूहः प्रपञ्चः । ननु खरूपासिद्धादीनामपि सत्वात्कथमेषामेव प्रदर्शनमत आह-शेषमिति । भाष्यं प्रशस्तपादभाध्यम् । सङ्गहाधिकारान्नात्रोक्तिः । ( शब्दार्थापत्त्यनुपलब्धीनामन्तर्भावः ) वाक्याद्वाक्यार्थधीः, असन्निहतविषयेऽभावधीः, असतोगेहे जीवतो बहिस्सत्वबुद्धिरनुमितिः, प्रत्यक्षेतरप्रमितित्वात्, सम्प्रतिपन्नवदिति । सन्निहितविषयेऽभावप्रमा प्रत्यक्षा, अनुमित्यन्यप्रमात्वात् , सम्प्रतिपन्नवदित्यन्तर्भावः। शेषं भाष्ये। [ब. टी.] शब्दमनुपलब्धिमर्थापत्तिश्च पराभिमतं मानान्तरमनुमानेऽन्तर्भावयितुमनुमानमाह-वाक्यादिति । एतावता पराभिमता शाब्दी बुद्धिः पक्षीकृता। शाब्दबुद्धित्वेन न पक्षता। अनुमानान्तर्भाववादिमते (?) शाब्दत्वजातेरभावात् । अतो वाक्यंजवाक्यार्थगोचरधीत्वेन पक्षता । वाक्यजन्यत्वन्तूभयवादिमतेऽप्यस्ति । तदनुमानविधया शब्दविधया वेत्यत्र परं विवादः। यद्यपि न्यायमते वाक्यत्वं (न?) जनकतावच्छेदकं, तथाप्यन्वयाविरोधिपदत्वादिना वाक्यस्यैव जनकत्वमिति तत्त्वम् । यद्यपि नैयायिकमतेऽप्यनुमानविधया वाक्यजन्या धीरस्त्येवेति तामादाय सिद्धसाधनम् , तथापि विवादपदं तादृशधीः पक्षः। यद्यपि वाक्यजन्या तत्र न वर्णावगाहिनी श्रोत्रधीः प्रत्यक्षेऽन्तर्भवति, तथापि तजन्या वाक्यार्थधीरनुमितावेवान्तर्भवतीति भावः। पदजनिते पदार्थस्मृतिजनितवाक्यार्थधीः काचित् मानसंबोधेऽन्तर्भवतीति बोध्यम् । असन्निहितेति। असनिहितेन विशेषणेन सन्निहिताभावबुद्धेः प्रत्यक्षान्तर्भावस्सूचितः। अनुपलब्धेरन्तर्भावोऽभावेति विशेषणेन प्राप्तः। अर्थापत्तिमन्तर्भावयति-असत इति । गृहेऽसतो जीवतो देवदत्तादेः बहिस्सत्वबुद्धिरित्यर्थः । गृहेऽवर्तमानस्य बहिस्सत्वबुद्धिः प्रमा न भवत्यतो गृहासत्वमुक्तम् । तादृशस्य मृतस्य बहिस्सत्वबुद्धिः प्रमा न भवत्यतो जीवत इति। ईदृशस्य गेहबुद्धिः प्रमा न भवत्यतो बहिरिति । पक्षस्सर्वत्र यथार्थानुभवो ग्राह्यः । प्रत्यक्षे व्यभिचारवारणाय अप्रत्यक्षेति । असिद्धिव्यभिचारयोर्वारणाय इतरेति। विपर्यये व्यभिचारवारणाय प्रमितित्वादिति । साध्यमप्यनुमितिप्रमात्वमुद्देश्यम् । सम्प्रतिपन्नवत् अनुमितिप्रमावदित्यर्थः । असन्निहितविशेषणेन सूचितमनुमानमाहसन्निहितेति । अभावविपर्यये बाधवारणाय प्रमेति। सन्निकर्पस्योभयवादिमतेऽभावज्ञानजनकत्वेऽपि स्वरूपसदनुपलब्धिजप्रमापक्षः । अर्थजन्यत्वमात्रे साध्येऽर्थान्तरमतः १ सत्वेति नास्ति क पुस्तके; सत्वबुद्धिश्चेति ग, घ. २ अप्रत्यक्षेति बलदेवपाठः. ३ प्रत्यक्षजेति क, ग, घ. वाक्यजन्येति च. ५ तजन्यधीर्वाक्यार्थधीरिति च. ६ बोधेऽपीति च, ७ पदमिदं नास्ति च. इत भारभ्य अत इत्यन्तो भागो नास्ति छ पुस्तके.

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120