Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 77
________________ ટૂંક प्रमाणमञ्जरी [ गुण [अ. टी.] उत्तरा परोक्षा प्रमितिः । असिद्धव्युदासार्थं पक्षधर्मतापदम् । अनेकान्तवारणाय साध्येत्यादि । केवलव्यतिरेकिव्युदासाय साध्येनेति पदम् । नित्यत्वसाध्येनामूर्तत्वस्य साहचर्यमात्रं विद्यते, न तु तल्लिङ्गत्वमतो नियमग्रहणम् । निनदः शब्दः । साध्याभावेऽभावनियमोऽन्वयव्यतिरेकिणोऽप्यस्ति । तेनोक्तम् असति सपक्ष इति । कर्तृमात्रपूर्वकत्वेन सिद्धसाधनताव्युदासाय सर्वविग्रहणम् । [ वा. टी . ] लिङ्गं पुनरिति । असिद्धनिवारणाय पक्षधर्मवदिति । अनैकान्तिकनिवारणाय साध्येति । साध्यव्यभिचारित्वञ्च साध्यनिरूप्यव्याप्तिमत्वम् । साध्यव्याप्यत्वमिति यावत् । न च केवलव्यतिरेकिण्यव्याप्तिः, तत्रापि कादाचित्कत्वं सर्ववित्कर्तृकत्वव्याप्यं, तदत्यन्ताभावनियतात्यन्ताभाववत्वात्, यद्यदत्यन्ताभावनियतात्यन्ताभाववत् तत्तस्य व्याप्यम् । यथा वन्हिमत्वात्यन्ताभावनियतात्यन्ताभाववद्भूमवत्वं वन्हिमत्वव्याप्यमिति साध्यव्याप्यत्वानुमानादिति । व्यतिरेकिनिरासाय साध्येति । अनैकान्तिकनिरासाय नियमग्रहणम् । अन्वयव्यतिरेकिनिरासाय अन्वयीति । * ( हेत्वाभासलक्षणम्, तद्विभागश्च ) लिङ्गलक्षणरहिता लिङ्गाभिमानविषया लिङ्गाभासाः । ते चासिद्धविरुद्धानैकान्तिकसाधारणबाधितविषय सत्प्रतिपक्षभेदात् षट्प्रकाराः । पक्षधर्मतयाज्ञातोऽसिद्धः । यथा शब्दो नित्यः, चाक्षुषत्वात् । पक्षविपक्षयोरेव वर्तमानो विरुद्धः । यथा शब्दोऽनित्यः, श्रोत्रग्राह्यत्वात् । क्षत्रयवृत्तिरनैकान्तिकः । यथा शब्दोऽनित्यः, प्रमेयत्वात् । सपक्षविपक्षव्यावृत्तः पक्षे वर्तमानोऽसाधारणः । यथा पृथिवी नित्या, गन्धवत्वात् प्रमाणविरोधी बाधितविषयः कालात्ययापदिष्टः । यथा अनुष्णोऽग्निः, प्रमेयत्वात्। समबलविरुद्धहेतुद्रयसमावेशः सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रोत्रग्राह्यत्वादित्युक्ते, नं नित्यः, सामान्यवत्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् इति षोढा व्यूढः । शेषं भाष्ये । [ब. टी.] लिङ्गलक्षणे व्यावर्त्यलिङ्गाभासज्ञानाय तल्लक्षणमाह-लिङ्गेति । सल्लिङ्गेऽतिव्याप्तिवारणाय रहिता इत्यन्तम् । प्रत्यक्षाभासादावतिव्याप्तिवारणाय विषया इत्यन्तम् । लिङ्गत्वेन ज्ञानगोचरा इत्यर्थः, न तु भ्रमगोचरा इत्यर्थः । अन्यथा रहितान्तस्य वैयर्थ्यापत्तेः। लिङ्गत्वमबाधितासत्प्रतिपक्षव्याप्तपक्षधर्मत्वम् । केचित्तु रहितान्तविषयान्तयो - र्व्याख्यानव्याख्येयभावं वर्णयन्ति । पक्षधर्मतयेति । व्याप्तिविशिष्टपक्षधर्मतयेत्यर्थः । व्याप्यत्वासिद्धेऽव्याप्तिभङ्गार्यं व्याप्तिविशिष्टेत्युक्तम् । स्वरूपासिद्धे आश्रयासिद्धे चाव्याप्तिनिरासाय पक्षवृत्तित्वेनाज्ञातेति । केवलव्यतिरेकिण्यतिव्याप्तिनिरासाय च १ अपरा प्रमितिरिति झ. २ पक्षधर्मत्वेनेति झ. न ४.५ हेतुर्विरुद्ध इति मु. ६ पक्षविपक्षसपक्षत्रयेति मु. नास्ति ग पुस्तके. ८ पदमिदं नास्ति घ पुस्तके. ९ सनेति ग, ३ साधनाभावे इति ट. ४ तत उक्तमिति ७ सपक्षेत्यारभ्य प्रमेयत्वादित्यन्तो भागो घ. १० वारणायेति च.

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120