Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[गुण . [वा. टी. ] इन्द्रियजत्वमपरोक्षशब्दार्थः । धर्म इति । प्रत्यक्षत्वश्चात्रेन्द्रियजन्यज्ञानविषयत्वम् । तेन नेश्वरेण सिद्धसाधनता । निर्विकल्पकनिवृत्तये विशिष्टेति । विपर्ययनिवृत्तये अबाधितेति । स्मृतिनिवृत्तये स्मृतीति । सविकल्पकत्वादेवास्य प्राप्तं विपर्ययवदप्रामाण्यमपाकरोति-तत्प्रमाणमिति । कुत इत्यत आह–सविकल्पकेति । सविकल्पिका बुद्धिरविसंवादिनी घटादिबुद्धिः । तेन न भागासिद्धिरिति ।
(निर्विकल्पकबुद्धिः) वस्तुखरूपमात्रावभासो निर्विकल्पकम् । ज्ञानानां सविकल्पकत्वादृष्टान्तासिद्धिरिति चेत्-न; प्रमाणोपपत्तेः। सर्वे विकल्पा ज्ञानव्यावृत्तजातिमन्तः, जातिमत्वात्, पटवत् ।। [ब. टी.] वस्त्विति । यद्यपि मात्रपदेनावस्तु न व्यवच्छेद्यं, तस्याप्रतीतेः। न च वैशिष्ट्यं व्यावर्त्य, तस्यापि वस्तुत्वात् , व्यक्तित्वाच; तथापि वैशिष्ट्यानवगाहित्वं निर्विकल्पकलक्षणम् । सर्व इति । अनुमितौ यत्किञ्चिज्ज्ञानव्यावृत्तजातिरनुमितित्वमित्यर्थान्तरवारणाय सर्व इति । ज्ञानव्यावृत्ता जातिः सविकल्पकत्वं सेत्स्यतीति भावः । न च निर्विकल्पकसविकल्पकरूपनरसिंहाकारज्ञाने सविकल्पकत्वस्याव्याप्यवृत्तित्वं प्रसङ्गः(१) । यद्वा घटोऽयमित्यादिज्ञानस्य वैशिष्ट्यावगाहितया सर्वाशे सविकल्पकत्वस्वीकारात् । यद्वा जातिपदं धर्ममात्रपरम् । घटादिव्यावृत्तज्ञानत्वादिजात्यर्थान्तरवारणाय ज्ञानेति । ज्ञाननिष्ठात्यन्ताभावप्रतियोगिधर्मवन्तः । सर्प सविकल्पका इति समुदायार्थः । केचित्तु ज्ञान गोचरजातिमत्वं साध्यमित्याहुः । तत्र जातिगोचरज्ञानस्य सविकल्पस्यैव साध्यापत्तेः। धर्मवत्वसाध्यपक्षे धर्मवत्वं हेतुः, जातिमत्वसाध्यपक्षे जातिमत्वं हेतुः । सविकल्पत्वं न जातिरित्येव पूक्षः । अत एव सैद्धान्तिके ध्वनिनिर्विकल्पकसिद्धौ प्रत्यक्षत्वसविकल्पकत्वयोने साङ्कयेम् । ___ [अ. टी.] लक्षिते निर्विकल्पके प्रमाणाभावेन सर्वज्ञानानां सविकल्पकत्वे दृष्टान्ताभाव इति शङ्कते-ज्ञानानामिति । प्रमाणाभावोऽसिद्ध इति प्रत्याह-नेति । विकल्पाः सविकल्पज्ञानानि । ज्ञानव्यावृत्ता या जातिस्तद्वन्त इति साध्यम् , तच्च ज्ञानार्थयोर्जातिगोचरम् । प्रत्यक्षं ज्ञानं निर्विकल्पकम् । उक्तञ्च भट्टपादैरपि
मुद्गमाषतिलादौ च यत्र भेदो न गृह्यते ।
तत्रैकबुद्धिर्निग्राह्या जातिरिन्द्रियगोचरा ॥ इति । आपातजस्य वस्तुस्वरूपमात्रप्रत्ययस्य प्राणिमात्रप्रत्यक्षत्वाच्च । यद्वा ज्ञानव्यावृत्ताः कस्मिंश्चिज्ज्ञाने वर्तमाना जातिस्तद्वन्तो विकल्पा इति साध्यम् । सत्तादिमत्वेन सिद्धसाधनतानिरासार्थ ज्ञानव्यावृत्तपदम् ।
१ वस्त्विति नास्ति ग, घ पुस्तकयोः. २ सविकल्पकेति नास्ति छ पुस्तके. ३ सविकल्पकस्येति च. ४ सिध्यापत्तेरिति च. ५ हेतुरिति नास्ति च. ६श्लोकवार्तिके. ७व्युदासार्थमिति ज, ट.

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120