Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता [वा. टी.]
आक्षिपति-ज्ञानानामिति । तथाचाहन सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वशब्देन जन्यते ॥ इति । तन्निराकरोति-सर्व इति । विकल्पाः सविकल्पज्ञानानि । कुतश्चिद्यावृत्ता या जातिस्तद्वन्तीत्यर्थः । गुणत्वेन सिद्धसाधनतापरिहाराय ज्ञानेति । तत्र ज्ञानत्वादीनामनुवृत्तत्ववादिकल्पकत्वमेव व्यावृत्तं वाच्यम् । तद्यतो व्यावृत्तं तनिर्विकल्पकमित्यर्थः । पटत्वादिना दृष्टान्तलाभः । तथा चाहुः
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति ।
(लैङ्गिकी बुद्धिः, अन्वयव्यतिरेकनिरूपणञ्च ) उत्तरा लैङ्गिकी । लिङ्गं पुनः साध्याव्यभिचारित्वे सति पक्षधर्मतांवत् । तद्वेधा भिद्यते-अन्वयव्यतिरेकभेदात् । यस्य साध्येन साहचर्यनियमस्तदन्वयि । तविधा-सति विपक्षे असति च । पूर्वमन्वयव्यतिरेकि। तद्यथा-निनदोऽनित्यः, कृतकत्वात् , यदेवं तदेवम् , यथा घंटः, तथा चेदं तस्मात्तथा। यत्पुनरनित्यं न भवति तत्पुनः कृतकमपि न भवति, यथाकाशम् , न चेदं न तथा, तस्मान्न च न तथा । उत्तरं केवलान्वयि । यथा स्थितिस्थापकः प्रत्यक्षः, प्रमेयत्वात्, यदेवं तदेवं, यथा पृथिवी, तथा च प्रकृतं, तस्मात्तथा। असति सपक्षे यस्य साध्याभावेनाभावनियमस्तद्व्यतिरेकि । सर्व कार्य सर्ववित्कतकम्, कार्यत्वात् न यदेवं न तदेवम् , यथा परमाणुः, न चेदं न तथा, तस्मान्न तथेति । ' [ ब. टी.] उत्तरा परोक्षा । लिङ्गमिति । व्याप्यत्वासिद्धेऽतिव्याप्तिवारणाय प्रकृतसाध्याव्यभिचारित्वमुक्तम् । आश्रयासिद्ध स्वरूपासिद्धे चातिव्याप्तिनिरासाय पक्षधर्मतावदित्युक्तम् । साध्येनेति । केवलव्यतिरेकिण्यतिव्याप्तिभङ्गाय साध्येनेति । व्यभिचारिण्यतिव्याप्तिभङ्गाय नियमग्रहणम् । असति सपक्ष इति । अन्वयव्यतिरेकिण्यतिव्याप्तिभङ्गाय असति सपक्ष इत्युक्तम् । विरुद्धव्यतिरेकिण्यतिव्याप्तिवारणाय नियमपदम्। सर्वमिति। आकाशादीनां पक्षत्वे वाधवारणाय कार्यमिति । अन्वये दृष्टान्ताभावं बोधयितुं सर्वकार्यस्य पक्षत्वसूचनाय सर्वमिति। किञ्चिज्ज्ञानबाधवारणायोद्देश्यसिद्धये च सर्वविदिति । कर्तृत्वेन तत्सिद्धये च कर्तृकेति।
१ पक्षधर्म इति क, ख, घ. २ रथ इति क, ग, घ. ३ पुनरिति नास्ति क. ४ न तथेदं तस्मान्न भवतीति क. ५ साध्याभावेऽभावेति क; साध्याभावे साधनाभाव इति घ. ६ यथा सर्वमितिक. ७कादाचित्कत्वादिति मु. ८न चेदं तथा तस्मात्तथेति क. ९ वारणायेति च. १०, ११, १२ वारणायेति च. १३ उक्तमिति नास्ति च. १४ ग्रहणमिति च. १५अवयव इति छ. १६ किञ्चिज्ज्ञेनेति छ. १७ कर्मिति छ.

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120